SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 नाहं तिष्ठापयिष्ये तत्, पुण्यकोशं विकाशिधीः । जिगीषुरिव विज्ञातै- गैरुभयचेतनैः ॥ ११ ॥ 'तत्' तस्मात् । 'जिगीषुरिव' शत्रुजयेच्छुरिव । शालिभद्रो मोहशत्रुजिगीषुरेव । “विकाशिधीः' विकसितमतिः । अहम् । 'उभयचेतनैः' उभया मम मोहस्य चापि चेतना येषु तैः । जिगीषुपक्षे-शत्रुपक्ष-स्वपक्षोभयपुरुषैः इत्येवम् ।। 'विज्ञातैः' विदितैः । 'भोगैः' संसारसुखैः । 'पुण्यकोशं' सुकृतनिधिम् । पक्षे-पवित्रनिधिम् । 'न तिष्ठापयिष्ये' नाहं स्थापयितं समीहिष्ये । अत्र 'तिष्ठापयिषिष्ये' इतिरूपमचितं प्रतिभाति । नहि स्थापयति कोऽपि शत्रुजनपावें धननिधिम् । शालिपक्षेऽपि मोहशत्रुपक्षीयभोगपावें स्वपुण्यनिधि स्थापयितुं शालिभद्रो नेच्छति ॥ ११ ॥ यत्रान्तर्भूत्यतादुःखं, सुखच्छाया बहिष्पुनः । तैः स्वगैरप्यलं ताम्रसुवर्णाभरणप्रभैः ॥ १२ ॥ 'यत्र' स्वर्गे । 'अन्तर्भूत्यतादुःखं' मध्ये सेवकत्वकष्टम् । बहिः पुन । 'सुखच्छाया' सुखभ्रान्तिः । 'तैः ताम्रसुवर्णाभरणप्रभैः' तामेऽपि-ताम्राभरणेऽपि सुवर्णाभरणानां प्रभा येषु तैः । 'स्वगैरपि अलं' देवलोकैरपि पर्याप्तम् ॥ १२ ॥ राजसर्पः प्रसरन्तं, यकं जेगिल्यतेऽनिशम् । धिगहो भोगिलोकं तं, सकर्णत्वनिराकृतम् ॥ १३ ॥ 'यकं' यं भोगिलोकम् । पक्षे-नागलोकं पाताललोकम् । 'प्रसर्पन्तं' गच्छन्तम् । 'अनिशं' सदा । 'राजसर्पः' राजवरः । पक्षे-अजगरः । 'जेगिल्यते' भृशं गिलति । 'अहो' आश्चर्ये । 'तं सकर्णत्वनिराकृतं' दक्षत्वरहितम् । पक्षेकर्णरहितम्। सर्पस्य दृक्कर्णत्वात् । 'भोगिलोकं' विलासिजनम् । पक्षे-सर्पलोकम् । धिगस्तु ॥ १३ ॥ तं मन्त्रं साधयिष्यामि, सेविष्ये देवतां च ताम् । आनन्दो राजमान्द्येन, न बन्दीक्रियते यथा ॥ १४ ॥ ARRARAUAYA8A82828282828282888 ॥१९४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy