SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ चतर्थः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 उन्नतम् । 'सौधशैलशिखराग्रं' प्रासादपर्वतशिखराग्रभागम् । 'अग्रहीत्' जग्राह । शालिभद्रप्रासादे हर्षनदीपूरे तरन् श्रेणिकः स्वसौधपर्वतं जग्राह । स्वप्रासादं प्रति गतः इत्यर्थः । रथोद्धतावृत्तमिदम् । 'रान्नराविह रथोद्धता लगौ' इति तल्लक्षणात् ।। १७२ ।। सौख्यानामुषयेव भोगकलया, पाणौकृतं प्रौढया, बद्धं बाणनिभेन मोहविभुना, प्रेमाहिपाशैर्भृशम् । उल्लङ्घ्य स्मर-वह्नि-वप्र-वलयं, मानेन नागारिणा, शालिर्मोचयति स्म केशव इव, स्वेनानिरुद्धं मनः ॥ १७३ ॥ (शार्दूल) 'केशवः इव' विष्णुः इव । 'शालिः' शालिभद्रः । 'स्वेन' आत्मना । 'अनिरुद्धं' असंयतम् । विष्णुपक्षेअनिरुद्धनामकं कामपुत्रं विष्णुपौत्रम् । 'मनः' चेतः । 'मोचयति स्म' मुमोच । कथम्भूतं तत् ? 'सौख्यानां सुखानाम् । 'उषया' प्रात:कालरूपया भाजनभूतया । पक्षे-उषा अनिरूद्धभार्या तया । 'प्रौढया' उत्कृष्टया । पक्षे-प्रौढस्त्रिया । 'भोगकलया' सुखकलया । पक्षे-भोगमधुरया । 'पाणौकृतं' अङ्गीकृतम् । पक्षे-विवाहितम् । 'बाणनिभेन' बाणतुल्येन । पक्षे-बाणाभिधाऽसुरेण । 'मोहविभुना' मोहराजेन । 'प्रेमाहिपाशैः' स्नेहनागपाशैः । पक्षे-नागपाशैः । 'भृशं' अत्यन्तम् । 'बद्धं' निगडितम् । 'मानेन' गर्वेण । 'नागारिणा' सर्पशत्रुणा । 'गरुडेन' सौपर्णेयेन । 'स्मरवह्निवप्रवलयं' कामाग्निदुर्गमण्डलम्। 'उपय' अतिक्रम्य । पूर्व पातालराजस्य बाणासुरस्य उषया गृहीतपाणि नागपाशबद्धं बाणासुरेणैव कृतवह्निवप्रवलयं अनिरुद्ध प्रद्युम्नपुत्रं गरुडवाहनो माधवो मोचितवानिति पौराणिकाः ॥ १७३ ॥ श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, चतुर्थः प्रक्रमोऽभवत् ॥ १७४ ॥ satasa8RSR88RSONASRSASASASRSASASNA ॥ १८९॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy