SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ चतर्थः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 धर्मः । न निर्याति ।। ८४ ॥ तथा । 'तङ्गप्रासादश्रङ्गतः' उच्चसौधचन्द्रशालात: । 'सुकुमाराङ्गः' कोमलदेहः । 'कुमारः' शालिभद्रः । 'सनीडेऽपि' समीपेऽपि । 'आक्रीडे' उद्याने । 'कर्हिचित्' कदापि । 'न हि क्रीडति' न खेलति ॥ ८५ ॥ श्रेणिकाय स्वगृहागमनार्थं विज्ञप्ति:सुधोज्ज्वलं श्रियां हेतुं, तन्महामहिमोदयम् । प्रासादं च प्रसादं च, स्वयं स्वामिन्नलङ्कुरु ॥ ८६ ॥ 'तत्' तस्मात् । 'स्वामिन् ' हे प्रभो ! 'सुधोज्ज्वलं' अमृतावदातम् । “श्रियां' लक्ष्मीणाम् । "हेतुं' कारणम् । 'महामहिमोदयं' महामहिम्न: उदयः यत्र तम् । 'प्रासादं' सौधम् । 'प्रसादं च' कृपां च । 'स्वयं अलङ्क' पादावधारणेन स्वयमेव समागच्छतु ॥ ८६ ॥ क्षणं क्षमस्व क्षोणीश ! गृहक्षणमिव स्वकम् । क्षणावतारादखूणं, मङ्घ काङ्क्षामि वर्त्म यत् ॥ ८७ ॥ 'क्षोणीश' हे पृथ्वीपते ! 'क्षणं' मनाक् । 'क्षमस्व' विलम्बस्व । 'यत्' यस्मात् । 'स्वकं' आत्मीयम् । गृहक्षणमिव गृहोत्सवमिव । 'मक्षु' क्षिप्रम् । 'क्षणावतारात्' उत्सवावतारात् । 'अक्षुणं' अन्यूनं सम्पूर्णमित्यर्थः । 'वर्त्म' मार्गम् । 'काङ्क्षामि' इच्छामि । हे राजन् ! भवतामागमनं अस्मद्गृहे उत्सवरूपमस्ति । अत: क्षणं प्रतीक्षस्व यावत् सम्पूर्णमार्ग उत्सवमयं करोमीति भावः ॥ ८७ ॥ इत्युदीर्योर्जितं भद्रा, गोभद्रेण सुपर्वणा । हरिश्चन्द्रपुरीरम्यां, हट्टशोभामचीकरत् ॥ ८८ ॥ 'इति' एवंरूपम् । 'ऊर्जितं' ऐश्वर्ययुक्तं वचनम् ‘उदीर्य' कथयित्वा । भद्रा । 'गोभद्रेण सुपर्वणा' गोभद्रदेवेन । ARRARAUAYA8A82828282828282888 ॥१६५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy