SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 लक्षदानं तयोः योजना-घटना । 'युज्यते' घटते । 'वस्त्रादिषु' रत्नकम्बलादिषु । लक्षयोजना-लक्षस्वर्णव्ययः । 'श्रृङ्गारहारिणां' श्रृङ्गारप्रियाणाम् । 'व्यवहारिणां' वणिजाम् । युज्यते ॥ २२ ॥ गलकम्बलवद्रत्नकम्बलस्यार्थहीनताम् । कुर्वतीत्थं नृपगवी, वर्णवित्ता यदृच्छया ॥ २३ ॥ चरन्ती चरणाक्षेपै ममर्द व्यवहारिणाम् । आशावल्ली सुविस्तीर्णा-मपि स्थानकरोपिताम् ॥ २४ ॥ 'इत्थं' एवं नृपवचनेन । 'गलकम्बलवत्' गोः कण्ठकम्बलवत् । रत्नकम्बलस्य । 'अर्थहीनतां' व्यर्थताम् ।। 'कुर्वती' विदधती । 'वर्णवित्ता' अक्षरप्रसिद्धा । धेनुपक्षे वर्णधना । 'यदृच्छया' स्वेच्छया । 'चरन्ती' चलन्ती । पक्षेखादन्ती चलन्ती वा । 'नृपगवी' भूपवाणी । पक्षे-नृन् पाति दृग्धादिना इति नृपा गवी-धेनुः । 'व्यवहारिणां' वणिजाम् । 'स्थानकरोपितां' योग्यस्थाने आलवाले वा रोपिताम् । 'सुविस्तीर्णामपि' सुविशालामपि । 'आशावल्लीं' मनोरथलताम् । 'चरणाक्षेपैः' पदाक्षेपैः । 'ममर्द' मर्दयति स्म ॥ २३ ॥ २४ ॥ आदानमुक्तिविच्छाया, दानमुक्तिप्रमोदिनः । वाणिज्यकारकास्तेऽपि, शालिभद्रालयं ययुः ॥ २५ ॥ 'अदानमुक्तिविच्छाया' ग्रहणमुक्तेः विक्रयाभावात् विच्छाया: म्लानवदनाः । 'दानमुक्तिप्रमोदिनः' करमुक्तेः कराग्रहणात् प्रमोदभाजः । ते वाणिज्यकारकाः अपि व्यवहारिणोऽपि । 'शालिभद्रालयं' शालिभद्रस्य आलयं गृहम् । 'ययुः' गच्छन्ति स्म ॥ २५ ॥ सार्थवाही महीकामा-ऽनड्वाही निजगोरसैः । तापं निर्वापयामास, निर्व्याजं वणिजामथ ॥ २६ ॥ 'महीकामानड्वाही' मह्याः पृथिव्याः कामाऽनड्वाही कामधेनुः । 'सार्थवाही' गोभद्र सार्थवाहस्य भार्या भद्रा । 828282828282828282828282828282828482 ॥१४८॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy