SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चतुर्थः |॥ अथ चतुर्थः प्रक्रमः॥ प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 अथ श्रीशालिभोगानां, राजवैद्यविचारतः । रसवीर्यविपाकश्री-निष्प्रपञ्चं प्रपञ्च्यते ॥ १ ॥ अथ 'श्रीशालिभोगानां' श्रीशालिभद्र-भोगसुखानाम् । शालिधान्यपक्षे-कलमौदनभोजनानाम् । 'राजवैद्यविचारतः' वैद्यराजस्य विचारत: वैद्यराजस्य विचारतः चिन्तनेन । 'रस-वीर्य-विपाकश्रीः' शालिभद्र-भोगानां रस-वीर्य-विपाकाः तेषां श्री: शोभा । अनासक्तियोगात् शालिभोगानां रस-वीर्य-विपाका: शुभा एव । पक्षे ओदनानां रस-वीर्य-विपाकश्री: । निष्प्रपञ्चं निश्छलम् । 'प्रपञ्च्यते' विस्तारतः कथ्यते ॥ १ ॥ तदा तदेव भूपीठे, राजते राजतेजसा । नगरं नग-रङ्कत्व-दायि देवगृहोन्नतेः ॥ २ ॥ 'तदा' तस्मिन् काले । 'देवगृहोन्नतेः' देवालयोच्चत्वात् । 'नग-रत्वदायि' नगानां पर्वतानां रङ्कत्वदातृ हीनतादायि । 'तदेव' राजगृहमेव नगरम् । 'भूपीठे' पृथ्वीतले । 'राजतेजसा' राजतुल्येन उत्कृष्टेन तेजसा । 'राजते' शोभते ॥ २ ॥ त्रिवर्गवर्गणाप्राय-नरवर्गस्य यस्य च । श्रीवीरः प्रददौ मर्त्य-भवस्येवाग्रभूमिताम् ॥ ३ ॥ 'मर्त्यभवस्य इव' मनुष्यावतारस्य इव । 'त्रिवर्गवर्गणाप्रायनरवर्गस्य' धर्मार्थकामलक्षण त्रिवर्गोपार्जनाप्रायो नरवर्गो यत्र तस्य नगरस्य । 'यस्य' राजगृहस्य । 'अग्रभूमितां' मुख्यताम् विहारादिद्वारा । 'श्रीवीरः' चरमोऽर्हन् । प्रददौ । अयं भाव:-यथा चतुर्गतिषु मनुष्यगतिः प्रधाना तथा सर्वनगरेषु राजगृहनगरस्य प्रधानतां श्रीवीर: प्रददौ । श्रूयते च श्रीवीरेण राजगृहनगरस्य नालन्दपाटके चतुर्दश चतुर्मासाः कृताः ॥ ३ ॥ satasa8RSR88RSONASRSASASASRSASASNA ॥१४२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy