SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 भुजङ्गान् भापयत्येष, बकुलै नकुलैरिव । वशीकरोति वश्यैकतिलकैस्तिलकैरिव ॥ १२७ ॥ 'एषः' वसन्तः । 'नकुलैरिव' सर्पहभिरिव । 'बकुलैः' बकुलवृक्षैः । 'भुजङ्गान्' सर्पान् वेश्यागामिजनान् वा । 'भापयति' भयं प्रापयति । 'वश्यकतिलकैः' वशीकरणे एकतिलकैः । 'तिलकैः' तिलकवृक्षैः । 'वशा:' नारी: । वशीकरोति । वशीकरणतिलकैः कृतैः स्त्रियो वशीभवन्तीति तज्ज्ञाः ॥ १२७ ॥ सीव्यन्ति मनसी यूनो, र्ये सूच्या वलितैर्गुणैः । रज: कञ्चकिता नैव, केतकैः के तकैः कृताः ? ॥ १२८ ॥ 'ये' केतकाः । 'सूच्या' सूचनया युव-युवतीनां परस्परं हावभावजन्यान् सङ्केतान् दर्शयति सा सूचिः सूचना तया सेवनी (सोय इति भाषायाम्) रूपया । 'वलितैः' नतैः प्रोतैरित्यर्थः । गुणैः सुगन्धाद्यैः सूत्ररूपैः 'यूनोः' युवक-युवत्योः । 'मनसी' चेतसी। 'सीव्यन्ति' योजयन्ति । 'तकैः' तैः । कः स्वार्थिकः । 'केतकैः' ककचच्छदवृक्षः। 'के' जनाः । 'रजःकञ्चकिताः' केतकरजःकवचिताः । रजोभावेन रागभावेन वा कञ्चकिताः । नैव कृता: ? अपि तु कृताः एव ॥ १२८ ॥ अकुण्ठ: कलकण्ठीनां, कल: कलकल: कलाम् । भेजे पुष्पायुधव्याधगोचरीगीतिकागताम् ॥ १२९ ॥ 'कलकण्ठीनां' कोकिलानाम् । 'अकुण्ठः' अरुद्धः । 'कलः' मधुरः । 'कलकलः' ध्वनिः । 'पुष्पायुधव्याधगोचरीगीतिका-गतां' पुष्पायुधः काम: सः एव व्याध: लुब्धकः तद्गोचरीं तद्विषयां गीतिका-गतां सङ्गीतगताम् । कलाम् । 'भेजे' आश्रितवान् । व्याधः खलु मृगग्रहणार्थं प्रयुड़े एव सङ्गीतम् । वसन्तेनाऽपि कोकिलध्वनिच्छलाद् गीतमारब्धमिति भावः ॥ १२९ ॥ माकन्दमञ्जरीहस्तै-नृत्यन्तीव वनावली । भ्रमभृङ्गझणत्कारि-वर्यवैडूर्यकङ्कणा ॥ १३० ॥ ARRARAUAYA8A82828282828282888 ॥१३२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy