SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'अस्य' शालिभद्रस्य । 'कान्तिमान्' द्युतिमान् । सूर्यपक्षे-किरणवान् । 'सविता' पिता । पक्षे-सूर्यः । देवः अमरः । पक्षे मेधः । 'शस्यश्रीहेतुः' मङ्गललक्ष्मीकारण् । सूर्य-मेघपक्षे-धान्यसम्पत्तिहेतुः । 'मनोवाञ्छितवृष्टिभिः' मनइष्टभूषणादिदानैः। पक्षे मनोऽभीष्टवर्षणैः । 'चिन्ता-सन्तापहन्ता' चिन्तायाः सन्तापः तस्य हन्ता निवारकः । अभूत् । यथा सूर्यः सस्यहेतुः कान्तिमाश्च भवति, यथा च मेघ: सस्यहेतुः मनोवाञ्छितवृष्टिभिश्च सन्तापहर्ता भवति तथाऽयमपि देवः इत्यर्थः ॥ ९६॥ श्रीशालेर्मानतुङ्गस्य, भोगलक्ष्मी नृजन्मनाम् । हृदयास्पर्शिनी मत्वा, जनकः किल कौतुकी ॥ ९७ ॥ आनिनाय सुतायात्र, समानां त्रिदशश्रियम् । प्रौढां चारित्रमन्त्रेण, श्रीणामाकृष्टिविद्यया ॥ ९८ ॥ 'मानतुङ्गस्य' मानेन गौरवेण तुङ्गस्य उच्चस्य । 'श्रीशालेः' श्राशालिभद्रस्य । 'नृजन्मनां' मनुष्याणाम् । भोगलक्ष्मीम्। 'हृदयास्पर्शिनी' स्पर्शनाऽयोग्यामशुचित्वात् । 'मत्वा' ज्ञात्वा । 'कौतुकी' कुतुहलप्रियः । 'जनकः' गोभद्रदेवः । किल: निश्चये ॥ ९७ ॥ 'सुताय' पुत्राय । 'समानां' तुल्यामनुरूपाम् । 'श्रीणां' लक्ष्मीणाम् । 'आकृष्टिविद्यया' आकर्षणविद्यया, 'चारित्रमन्त्रेण' पर्वगृहीतं चारित्रमेव मन्त्रस्तेन । चकारोऽत्रावसेयः । 'प्रौढां' महतीम् । 'त्रिदशश्रियं' देवलक्ष्मीम् । 'अत्र' शालिमन्दिरे। 'आनिनाय' आनयति स्म ॥ ९८ ॥ शालिभद्रस्य अद्भुतं वैभवम्तद्दत्तदिव्यभोगाङ्गैः, शालिः कन्दर्पदर्पहृत् । प्रत्यक्ष इव श्रृङ्गार-रसराजौ विराजते ॥ ९९ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥ १२३॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy