SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 तव एव । 'श्रृङ्गार-परभागाय' श्रृङ्गारगुणोत्कर्षाय । 'अयं उपक्रमः' आरम्भः । 'यतः' यस्मात् । 'सुताः' पुत्राः। 'पितृणां' दिवंगतपितृणाम् । 'स्वर्गभोगाङ्गैः' दिव्यभोगांशैः । 'महीयन्ते' गौरवं प्राप्नुवन्ति । भाविकाले गोभद्रदेवप्रेषितदिव्यर्दिभोगात् शालिभद्रः गौरवं गमिष्यति तेनेदं कवि-कथनम् ॥ ६० ॥ भद्रे त्वमपि सद्बुद्धिर्मनसोऽपि परा मम । प्रीणीयाः सुतमात्मानं, विशुद्धाध्यवसायिनी ॥ ६१ ॥ 'भद्रे !' हे प्रिये ! त्वमपि । 'सबुद्धिः' शोभना बुद्धिः यस्याः सा । 'मनसोऽपि' चित्तादपि । 'परा' परमा निर्मला । 'विशुद्धाध्यवसायिनी' पवित्रविचारणामयी । 'आत्मानं' स्वम् । 'सुतं' पुत्रं च । आत्मीयमित्यपि पाठान्तरम् । 'प्रीणीयाः' सन्तोषं दद्याः ॥ ६१ ॥ द्वात्रिंशता स्नुषाभिस्त्वं, ताराभिरिव रेवती । धिष्ण्यं श्रिता सुते भूयाः, कार्याणां सिद्धियोगकृत् ॥ ६२ ॥ 'ताराभिः' तारकैः परिवृत्ता । 'रेवतीव' रेवतीनक्षत्रवत् । द्वात्रिंशता 'स्नुषाभिः' पुत्रवधूभिः परिवृता। 'धिष्ण्यं' भवनम् । 'धिष्ण्यमावसथ: स्थानं' इति हैम्याम् । रेवतीपक्षे-शुक्रग्रहम् । 'दैत्यगुरुधिष्ण्यः ' इति हैम्याम् । 'श्रिता' अधिष्ठिता । 'सुते' पुत्रविषये । 'कार्याणां' सांसारिक-धार्मिक-कृत्यानाम् । 'सिद्धियोगकृत्' सफलताकारिणी । 'भूयाः' भव । रेवतीनक्षत्रशुक्रयोगे सिद्धियोगो भवतीति ज्योतिर्विदः ॥ ६२ ॥ एवं विनीय निर्णीय, शालिमालिङ्ग्य साञ्जसम् । अभ्यषिञ्चदिवामन्दा-नन्दनीरैर्निजे पदे ॥ ६३ ॥ 'एवं' उपर्युक्तवचनैः । 'विनीय' विज्ञापय्य । 'निर्णीय' दीक्षार्थं निश्चित्य । 'साञ्जसं' प्राञ्जलं सरलम् । 'शालिं' satasa8RSR88RSONASRSASASASRSANASNA ॥११३॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy