SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'मृदुना' सुकुमारेण । 'स्नेहाण' प्रेमोचितेन । केशपक्षे-तैलयोग्येन । 'सुतेजसा' तेजस्विना । केशपक्षेऽपि एवमेव। एकेन बालेन शिशुना । पक्षे-एकेन केशेन । धिक् कथं व्याला दुष्टाम् । लक्ष्मीः किल अनेकलोकभोग्या तत एव दुष्टा । पक्षे-दुष्टहस्तिनीम् । 'वशामपि' स्वाधीनामपि । पक्षे-हस्तिनीम् । 'श्रियं' लक्ष्मीम् । 'आलानयसि' बध्नासि ? आलानं-गजबन्धनम् । अयं भाव:-यथा एकेन बालेन (केशेन) व्याला हस्तिनी न बध्यते तथा एकेन लघुबालेन शालिभद्रेण श्री: न भन्त्स्य ते ॥ २८ ॥ स्तम्भः सौधं न तु स्थूणा, यूथं हस्ती न हस्तिनी । दुरालानं लता नैव, रथमुक्षा न गौर्यथा ॥ २९॥ एवमुच्चैः कुलाभारं, सात्त्विकः पुरुषोऽर्हति । अबला नाम-धामभ्यां, न नारी कोविदाऽप्यहो ॥ ३०॥ यथा सौधं प्रासादम् । स्तम्भः वोढुमर्हति न तु स्थूणा कीलिका । एवं यूथं हस्ती न तु हस्तिनी । 'दुरालानं' | दुःखेन आलायते गृह्यते इति दुरालानः तम् । शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽन: ५।३।१४।। इत्यनः । दुष्टगजमित्यर्थः। न एव लता बध्नाति । 'रथं' स्यन्दनम् । 'उक्षा' वृषभः । न तु गौः धेनुः वहति ॥ २९ ॥ एवम् । उच्चैः कुलाभार कुलस्य आभारं आ-समन्तात् भारः वीवधः तम् । सात्त्विकः सत्त्वशाली पुरुषः । अर्हति योग्यः अस्ति । अहो आश्चर्ये । 'नाम-धामभ्यां' अभिधान-पराक्रमाभ्याम् द्विधाऽपि अबला स्त्रियाः नामाऽपि अबला पराक्रमोऽपि अबल: अत: द्विधा । अबला । 'कोविदाऽपि' विचक्षणाऽपि नारी न वोढुमर्हति ॥ ३० ॥ सार्थवाहस्ततः प्राह, प्रवीणे ! विधुराऽसि किम् । त्वं बालशारदेवासि, जिनतत्त्वविशारदे ॥ ३१ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥ १०३॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy