SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 सविवेकैरलङ्कारैः, सभ्याविर्भावितै रसैः । सुरीतिवृत्तिभिश्चाय-मभूत्साहित्यशोभितः ॥ ८६ ॥ शालिभद्रकुमार: 'साहित्यशोभितः' साहित्यशास्त्रविभूषितः पक्षे-साहित्यं सहितता सङ्गतिः सुज्ञसङ्गतिः तया शोभितः अभूत् । कथम् ? 'सविवेकैः' विवेकपूर्वकैः । 'अलङ्कारैः' काव्यशास्त्रोक्तश्लेषाद्यैरलङ्कारैः । सत्सङ्गतिपक्षे-विवेकपूर्वकैः आभूषणैः । 'सभ्याविर्भावितैः' सभ्यैः विद्वद्भिः आविर्भावितैः प्रकटीकृतैः । 'रसैः' श्रृंगाराद्यैः । पक्षे-सभ्यपुरुषैः प्रकटीकृतैः रसैः रागैः स्नेहैः । 'सुरीतिवृत्तिभिः' 'वैदर्भी-गौडी-पाञ्चाली-मागधी' एताः चतस्रः अलङ्कारशास्त्रप्रसिद्धाः रचना: 'रीतिः' प्रोच्यते, सुरीतियुक्ताभिः वृत्तिभि: विवरणैः । पक्षे-सुरीतिभिः सुस्वभावाभिः वृत्तिभिः वर्तनः ॥ ८६ ।। भेजुस्तं सपदि प्रीताः, कलाद्वासप्ततिः कलाः । चक्रवर्ती कलाचक्रे, धर्मस्तत्रोषितोऽस्ति यत् ॥ ८७ ॥ 'तं' शालिभद्रम् । 'सपदि' झटिति । 'प्रीताः' तुष्टाः । 'कलाः' मनोहराः । 'कलाद्वासप्ततिः' कलानां द्वासप्ततिः । 'भेजुः' आश्रितवत्यः । 'यत्' यतः । तत्र 'कलाचक्रे' कलासमुदाये । धर्मः । 'उषितः' स्थित अस्ति । यतः उक्तम्सव्वा कला धम्मकला जिणाइ ॥ ८७ ।।। यूनः शालिभद्रस्य वर्णनम्:अथ शालेमनोज्ञानां, भूपरूपं निषेवितुम् । अवाततार तारश्री-पावनं यौवनं वयः ॥ ८८ ॥ अथ । 'मनोज्ञानां' मनोहराणां नृणां नृषु वा । 'शालेः' शालते शोभते इति शालि: तस्य शालिभद्रस्येत्यर्थः । 'भूपरूपं' भूपतुल्यं रूपं, रूपाधिराजमित्यर्थः । 'निषेवितुं' नितरां सेवितुम् । 'तारश्री-पावनं' तारश्रीः श्रेष्ठशोभा तया पावनं पवित्रम् । 'यौवनं वयः' तारुण्यं वयः । 'अवाततार' अवतीर्णवत् ॥ ८८ ॥ ARRARAUAYA8A82828282828282888 ॥७८॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy