SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 येषां ते । पक्षे-प्रसरच्शुण्डाग्राः । 'क्रीडयन्ति स्म' खेलयन्ति स्म । यथा कलभकं हस्तिनः हस्तिन्यश्च खेलयन्ति तथा बालं शालिभद्रं सर्वे खेलयन्ति इत्यर्थः ॥ ७६ ॥ काञ्चनाम्भोजयोस्तस्य, पदो: कनकघुघुराः । तदीयरेणुपिङ्गाङ्गा, रेणु ङ्गा इवानिशम् ॥ ७७ ॥ 'तस्य' शालिभद्रस्य । 'कनकाम्भोजयोः' सुवर्णकमलसमयोः । ‘पदोः' पादयोः । 'कनकघुघुराः' सुवर्णधुर्घराः । 'घुधरा' इति भाषायाम् । 'तदीयरेणुपिङ्गाङ्गाः' तदीयरेणुभिः चरणकमलरेणुभि: पिङ्गाङ्गाः पीतावयवाः । 'भृङ्गाः इव' भ्रमराः इव । 'अनिशं' अजस्रम् । 'रेणुः' रणत्कारं चक्रुः । शालिभद्रस्य शिशोः चरणकमलयोः सुवर्णघुघुराः भ्रमरा: इव रणत्कारं कुर्वन्ति स्म इत्यर्थः ॥ ७७ ।। प्रालम्बिका प्रलम्बाऽस्य, बभौ कण्ठावलम्बिता । वयसः प्रथमस्येव, केलिदोला चलाचला ॥ ७८ ॥ 'अस्य' बालशालिभद्रस्य । 'कण्ठावलम्बिता' कण्ठस्थिता । 'प्रलम्बा' प्रकृष्टेन लम्बमाना । 'प्रालम्बिका' हारविशेषः। 'प्रशमस्य वयसः' शिशुत्वस्य । 'चलाचला' चला चपला । 'चराचर-चलाचल ।४।१।१३।। इति सूत्रेण निपातः । 'केलिदोला इव' केल्या: क्रीडाया: दोला हिण्डोलक: इव । 'बभौ' भाति स्म । शिशुशालिभद्रकण्ठस्थितः प्रालम्बिकाहार: चलत्वं गच्छन् क्रीडाहिण्डोलको भवतीत्यर्थः ।। ७८ ॥ सरङ्गचञ्चुचरणः, सद्गतिर्मधुरस्वरः । बलक्षपक्षपक्षीव, काकपक्षधरोऽप्यभूत् ॥ ७९ ॥ 'काकपक्षधरोऽपि' स बाल: 'बलक्षपक्षपक्षीव' वलक्षौ श्वेतौ पक्षौ यस्य सः वलक्षपक्षः हंसः राजहंसपक्षीव । अभूत्। अत्र विरोधपरिहाराय 'काकपक्षधरः' इति पदस्य बाल-शिखाधारकः इत्यर्थः कार्य: । 'सा (शिखा) बालानां satasa8RSR88RSONASRSASASASRSANASNA ॥७५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy