SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 कलिं निःशेषदोषाणां, जयं पत्युर्वितन्वती । भद्रा भद्राय सा किन्तु, चतुःषष्टिकलान्विता ॥ ४६॥(युग्मम् ) 'अनार्याणाम्' पापानाम् । 'कार्यहानि' कर्मविनाशम् । 'यच्छती इव' कुर्वती इव । 'रुषां' क्रोधानाम् । 'मृति' मृत्युम् । 'मदानां' मानानाम् । 'नैःस्व्यं' दारिद्रयम् । 'विश्वेषां' सर्वेषाम् । 'दुर्धियां' दुष्टमतीनाम् । 'बुद्धिनाशं' मतिहानिम्। च: समुच्चये ॥ ४५ ॥ 'नि:शेषदोषाणां' समस्तदुर्गुणानाम् । 'कलिं' कलहं विनाशम् । 'पत्यश्च' प्रियस्य च । 'जयं' विजयम् । 'वितन्वती' कुर्वती । चतुःषष्टिकलान्विता । 'भद्रा' गोभद्रपत्नी । 'भद्राय' मङ्गलाय । किन्तु सा भद्रा ज्योतिःशास्त्रप्रसिद्धा विष्टिः । 'अभद्राय' अमङ्गलाय । का सा विष्टिः ? उच्यते-बाण-द्वि-दिग्-जलधि-षट्-त्रिषु नाडिकासु, वक्त्रं गलो हृदय-नाभि-कटाश्च पुच्छम् । विष्टे विदध्युरिह कार्य-वपुः स्व-बुद्धि-प्रेम-द्विषां क्षयमिमेऽवयवाः कमेण ॥ (वसन्त.) एवं भद्रा (विष्टिः) ३० कलान्विता । गोभद्रपत्नी भद्रा ६४ कलान्विता । भद्रा (विष्टिः) अभद्राय । भद्रा (गोभद्रपत्नी) भद्राय ॥ ४६ ॥ अनयोर्नर्मदोत्सङ्ग-केलि-कल्लोल-लोलयोः । कियानपि ययौ कालः, करेण्वोरिव भद्रयोः ॥ ४७ ॥ 'नर्मदोत्सङ्ग-के लि-कल्लोल-लोलयोः' रेवानद्यङ्कक्रीडालहरी-चपलयोः । 'भद्रयोः करेण्वोरिव' भद्रजातीयहस्तिदम्पत्योरिव। 'अनयोः' गोभद्रभद्रयोः । कियानपि काल: ययौ ॥ ४७ ।। सङ्गमजीवस्य अवतरणम्चङ्गः सङ्गमकस्याथ, जीव: पीवरपुण्यभूः । अतन्द्रभद्रदन्तीव, भद्राकुक्षाववातरत् ॥ ४८ ॥ ARRARAUAYA8A82828282828282888 ॥६६॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy