SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ द्वितीयः श्री शालिभद्र महाकाव्यम् प्रक्रमः SASASAR 8282828282828282828282828282 तान्येव भद्रपीठानि-भद्रासनानि तेषु प्रतिष्ठितं-स्थितम् । 'सौवर्ण-कलस-ज्योति-र्माला-मुकुट-मण्डितं' सौवर्णानां कलसानां प्रासादोपरिस्थितानां कलसानां ज्योति-माला तेजःश्रेणि: सैव मुकुटं तेन मण्डितं विभूषितम् ॥ २० ॥ 'उद्धृत-केतकी-रेणु-धूप-धूम्या-भ्रम-च्छलात्' उद्धृते उच्छलिते केतकीरेणुः धूपधूम्या धूपधूम्रश्रेणिश्च उद्धृतकेतकीरेणुधूपधूम्ये तयोः भ्रमः भ्रान्ति: तस्य छलात्-व्याजात् । 'उत्तुङ्ग-गङ्गायमुनाच्छत्राभ्यामिव' उत्तुङ्गे उच्चैः स्थिते गङ्गायमुने (केतकीरेणुः श्वेता धूपधूम्या च कृष्णा ततः ते गङ्गायमुना-समाने) ते एव छत्रे ताभ्यामिव राजितं शोभितम् ।। २१ ।। 'ध्वजाञ्चल-चलच्चारु-चामराली-मनोहरम्' ध्वजाञ्चल: पताकावस्त्राञ्चलः स एव चलन्ती चारुचामरश्रेणिः तया मनोहरम् । अन्योऽपि राजा एतै राजचिह्नः युक्तः भवत्येव ॥ २२ ।। महाराजः श्रीश्रेणिकः महाराज्ञी श्रीचेल्लणायत्र नेत्रशुभारामा, बहिरन्तश्च रेजिरे । प्रियालापाः सनारङ्गाः, पत्रवल्ली-विराजिताः ॥ २३ ॥ पथ्या-रम्भाभिरामाश्च, संवृताः पाटलाधराः । पुण्यपण्यैः परीभोग्याः सुकुल्या हंसविभ्रमाः ॥ २४ ॥ यत्र हाणि धाणि, विशालान्युज्ज्वलानि च । कोटिप्राप्तपताकानि, चरित्राणि सतामिव ॥ २५ ॥ कीर्त्यारोहणनिःश्रेणि-गुणश्रेणिरपालयत् । रञ्जिताष्टादशश्रेणिः, श्रेणिकस्तत्पुरं नृपः ।। २६ ॥(कलापकम् ) 'यत्र' राजगृहे । 'नेत्रशुभारामाः' नेत्राख्यवृक्षैः प्रधानवृक्षैर्वा शुभाः प्रधाना आरामा उद्यानानि । स्त्रीपक्षे-नेत्रशुभाः लोचनशुभाः, रामाः स्त्रियः । 'बहिरन्तश्च' पुराद् बहिः उद्यानानि, पुरान्तश्च स्त्रिय: । 'रेजिरे' राजन्ते स्म । 'प्रियालापाः' 82828282828282828282828282828282828 ॥५८॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy