SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री ॥ अथ द्वितीयः प्रक्रमः ॥ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 तेन दानावदानेन, प्रीणितो धर्मभूपतिः । यं प्रसादमदत्ताऽस्मै, तस्य लीलायितं स्तुमः ॥ १ ॥ 'तेन' सङ्गमकृतेन । 'दानावदानेन' दानपराक्रमेण अद्भुतदानकर्मणा । 'प्रीणितः' प्रसनः । 'धर्मभूपतिः' धर्ममहाराजः। 'यं प्रसाद' कृपाम् । 'अस्मै' सङ्गमाय । 'अदत्त' अयच्छत् । 'तस्य' प्रसादस्य । 'लीलायितं' क्रीडितं विलासम् । 'स्तुमः' कीर्तयामः ॥ १ ॥ जम्बूद्वीप-भरतक्षेत्र वर्णनम्अस्ति स्वस्तिपदं शश्वन्महापुरुष-सन्निभः । 'जम्बूद्वीप' इति द्वीप-श्चन्द्रनिस्तन्द्रवृत्तभूः ॥ २ ॥ 'स्वस्तिपदं' शुभस्थानम् । 'शश्वत्' सनातनः । 'महापुरुषसन्निभः' महापुरुषेण सन्निभः सदृशः । 'चन्द्रनिस्तन्द्रवृत्तभूः' चन्द्रवत् निस्तन्द्रा तन्द्राहीना जागृता वृत्ता वर्तुला भूः क्षिति: यस्य सः । महापुरुषपक्षे-चन्द्रवत् निस्तन्द्रं-अप्रमत्तं वृत्तं-आचरणं तस्य भूः स्थानं यस्य सः । यदुक्तम् उदारस्तत्त्ववित् सत्त्व-सम्पन्नः सुकृताशयः । सर्वसत्त्वहितः सत्य-शाली विशदसद्गुणः ॥ १ ॥ विश्वोपकारी सम्पूर्ण-चन्द्रनिस्तन्द्रवृतभूः । विनीतात्मा विवेकी यः, स महापुरुषः स्मृतः ॥ २ ॥ 'जम्बूद्वीप' इति नाम्ना प्रसिद्धः द्वीपः । 'अस्ति' वर्तते ॥ २ ॥ 828282828282828282828282828282828282 ॥५१
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy