SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रमः शालिभद्र महाकाव्यम् 8282882 8282828282828282828282828282 अजनिष्ट' जातम् । 'इतीव अयं संनिवेशः' ग्रामः । 'शालिग्राम' 'इति ईरितः'-कथितः । यतः शिवलिङ्गे हि 'शालिग्राम' इति संज्ञा प्रचलिताऽस्ति ॥ १२१ ॥ वत्सकान्यनुगच्छन्ति, येन गावः समुत्सुकाः । शिश्रिये वत्सपालं तरात् तं धर्मकामधुक् ॥ १२२ ॥ 'येन समुत्सुकाः'-अतीवोत्कण्ठिता गावः । 'वत्सकानि' निजापत्यानि । 'अनुगच्छन्ति'-अनुयान्ति 'तत्' तथा 'दूरात्'। 'धर्मकामधुक्'-धर्मकामधेनुः । 'तं वत्सपालं' सङ्गमम् । 'शिश्रिये'-आश्रितवती । यथा धेनुः वत्सानि अनुगच्छति तथा धर्मकामधेनुः सङ्गमं श्रितवती इत्यर्थः ॥ १२२ ।। मिथ्यात्वपुद्गलानेव मन्ये मदनकोद्रवान् । रुरोद विमलीकर्तुमिव धन्याऽऽत्मजन्मनः ॥ १२३ ॥ 'धन्या'-सङ्गमजननी । 'आत्मजन्मनः'-पुत्रस्य । 'मदनकोद्रवान्'-तुच्छधान्यविशेषा मदनकोद्रवाः तत्समान् मिथ्यात्वपुद्गलान् । 'एव:' अवधारणे । 'विमलीकर्तुमिव' । 'रुरोद'-रोदिति स्म इत्यहं मन्ये ॥ १२३ ॥ शतैः सुपाटकः प्राप्यः सहस्त्रैः प्रातिवेश्मिकः । तस्यास्तु प्रतिवेशिन्यः प्राप्ताः कोटि परां पुनः ॥ १२४ ॥ द्रष्टव्या-७१ श्लोकटीका ॥ १२४ ॥ अषडक्षीणमंत्रोऽयं पर्व स्वस्मै प्रकाश्य यः । पायसोपक्रमं चक्रे परलोकफलप्रदम् ॥ १२५ ॥ 'य: अयं अषडक्षीणमंत्रः'-न विद्यन्ते षडक्षिणी यत्र तथाविधा गुप्तमंत्रणा विद्यते यस्य स सङ्गम:, दानपूर्वं दानानन्तरं वा सङ्गमेन न स्वमात्रे कथितं तस्मात् अषडक्षीणमंत्र: स सङ्गमः । 'पूर्व'-प्राक् । 'स्वस्मै' आत्मने । 'प्रकाश्य' निवेद्य । 'परलोकफलप्रदं' कृत्यम् । 'पायसोपक्रम' 'पायसेन' परमान्नेन उपकमम्-आरम्भम् । 'चक्रे'-करोति स्म ॥ १२५ ॥ 828282828282828282828282828282828482 ॥४०॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy