SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 अनभ्रविभ्रमा वृष्टिरचन्द्रा किल चन्द्रिका । अप्रदीपः प्रकाशश्च ममाकस्माद् विजृम्भते ॥ ८९ ॥ 'अनभ्रविभ्रमा'-अजलदविलसिता । वृष्टिः'-वर्षणम् । 'अचन्द्रा'-चन्द्ररहिता । 'किलः' निश्चये । चन्द्रिका' ज्योत्स्ना । 'अप्रदीपः' प्रदीपरहितश्च प्रकाश: तेजः । 'मम अकस्मात्' न कस्मात् अकस्मात् । विजृम्भते-प्रकटीभवति ।। ८९ ॥ ऐरावणोऽयं भूपीठे, गङ्गापूरश्च जाङ्गले । मरौ जात: पारिजातः, साधुामे यदीदृशे ॥ ९० ॥ 'अयं' साधुः । भूपीठे-पृथ्वीतले । 'ऐरावणो' तन्नामा इन्द्र-हस्ती । जाङ्गले-निर्जलदेशे । चः समुच्चये । गङ्गापूरः जाह्नवीप्रवाहः । मरौ देशे च पारिजातः कल्पवृक्षः जातः । यद् ईदृशे ग्रामे लघुग्रामे । साधुः-मुनिः । आगतः इति शेषः ॥ ९० ॥ राजा रोरगृहं प्रापदमावस्यामयं शशी । हेलिः पातालमूलं वा, यत्तत्रापि ममालयम् ॥ ९१ ॥ 'राजा'-नपः । 'रोरगह'-द्रमकगेहम । 'प्रापद'-प्राप्तः । 'अमावस्यां'-अमावस्यायाम् । 'अयं' साधुः । 'शशी'चन्द्रः प्राप्त: । 'हेलि:'-सूर्यः । 'वा'-विकल्पे । 'पातालमूलं'-अधोलोकं प्रापद् । 'यत्'-यस्मात् । तत्रापि-ग्रामे । 'ममालयं'-मम गृहम् । साधुः आगतः ॥ ९१ ॥ सामान्यान्नस्य सन्देहे, परमान्नं क्व मे गृहे । ऊषरे स्यान्न तृण्यापि, क्व महाशालिपालयः ॥ १२ ॥ 'सामान्यान्नस्य अपि' साधारणभोजनस्यापि । 'सन्देहे' संशये । 'मे'-मम । 'गृहे' गेहे । 'परमान्नं' पायसं क्व? | 'ऊषरे प्रदेशे'-ऊषरभूमौ । 'तृण्या'-तृणसमूहोऽपि । न स्यात् न प्ररोहेत् तर्हि क्व 'महाशालिपालयः'-महाशालिस्तम्बानां पालि: पक्तिः ? ॥ ९२ ॥ 828282828282828282828282828282828482 ॥३०॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy