SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 विशेषस्तु विशेषज्ञा, मनोरथरथेऽद्य माम् । अवेदनः सुतः सूतः, संयुयोज जरद्गवीम् ॥ ५८ ॥ 'विशेषज्ञाः' विशिष्टविज्ञाः हे प्रातिवेश्मिक्यः ! 'विशेषस्तु' विशिष्टोऽयं वृत्तान्तः । अद्य 'अवेदनः' विशिष्टज्ञानविहीनः । 'सूतः' सारथिः सूततुल्यः । 'सुतः' पुत्रः । 'मनोरथ-रथे' मनोरथः एव रथः तस्मिन् । 'जरद्गवीं' जरती गौः तत्समाम् माम् । 'संयुयोज' सम्यक् युनक्ति स्म ॥ ५८ ॥ ___तन्निर्वाहाक्षमा क्षामा, विषीदामि निषीदत । हेतुर्नान्यः सौख्यकेतु-र्भवत्सन्निधिसन्निधेः ॥ ५९ ॥ 'तन्निर्वाहाक्षमा' तन्निर्वाहे तन्मनोरथपूरणे अक्षमा-असमर्था । 'क्षामा' कृशा । 'विषीदामि' विषादं करोमि । 'यूयं निषीदत' उपविशत । 'भवत्सन्निधिसन्निधेः' भवतीनां सन्निधिः-सान्निध्यं सामीप्यं एव सन्निधिः-शोभनो निधिः तस्मात् । 'सौख्य-केतुः' मम सौख्यस्य केतुः केतनम् सुखसूचकमित्यर्थः । 'अन्यो हेतुः' अपरं कारणम् । 'न' न विद्यते ॥ भवत्सान्निध्यमेव मम सुखकारणमिति भावः ॥ ५९ ॥ प्रातिवेश्मिकीनां मधुरप्रत्युत्तरम्ततस्ता विस्मिता स्माहुरैन्द्रो गज इवाङ्गजः । कल्पद्रुमफलश्रेणी, निस्सहे ! किं समीहते ? ॥ ६० ॥ 'ततः' तत्पश्चात् । 'ताः' प्रातिवेश्मिक्यः । 'आहुः' कथयन्ति । 'निःसहे' हे असमर्थे ! । 'ऐन्द्रो गजः इव' ऐरावणहस्तीव । 'अङ्गजः' तव पुत्रः । किं 'कल्पद्रुमफलश्रेणी' कल्पतरुफलावली । 'समीहते' इच्छति ? ॥ ६० ॥ गद्गदं सा जगादाथ, सुस्निग्धं वसुधासुधा । प्रतीतं परमप्रीत्यै, निसर्गात् स्वर्गिणामपि ॥ ६१ ॥ पायसं सद्वच इव, निर्द्धनैः क्वापि नाप्यते । तत्तेनायाचि यद् दृष्ट-श्रद्धालुर्बालको जनः ॥ ६२ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥२१॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy