SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना इत्थं श्रीगुरुपूज्यहर्षविनयश्रीसूरितः संस्तुति भक्तिव्यक्तितया ममेश विमलादीन्द्रश्रियां मण्डनम् ! त्वं संयच्छ भवे भवे भवभवं बोधिं सुबोध्याकुरं । दिव्यानन्ददधर्महंसललनाजप्राज्यराज्यश्रियम् ॥२१॥ श्रीऋषभजिनेन्द्रतस्तवनम् [शार्दूलविक्रीडितम् । श्रोशत्रुञ्जयशैलभासुरशिरः श्रृंगारचूडामणे, ! श्रीनाभेय ! जगन्मनाऽम्बुजवनप्रह्लादनाहर्मणे ! रम्यां सिद्धिवधू वुवूर्षुरखिलं पापं जिही र्निजम् , त्वामज्ञोऽपि निनीषुरस्मि भगवन् ! मार्गे गिरा किश्चन ॥१॥ भाग्यैरुत्पलमण्डलैरिव जगद्भूतः ! समुन्मीलितम् ,... प्रोढप्राच्यभवार्जितैर्मुकुलितं पापैः सरोजैरिव । आनन्दाम्बुधिना च मेऽद्य भगवन् । कल्लोललीलायितम् , त्वद्वक्त्रामलचन्द्रमण्डललसद्भामण्डलेझोत्सवे ॥२॥ त्वद्यात्रागत-देहिनां गजपतेः स्कन्धाधिरूढा सती, त्वन्मातेव समप्रपापपटलं बेभिद्यते प्रागपि । तेन त्वं जगतां पते ! किल कलप्रासादमध्यस्थितो, ध्यानासीन इवेक्ष्यसे विगततच्चिन्ताचयः प्राणिभिः ॥३॥ चेतश्चिन्तितदानदैवततरूः श्री श्रीकपर्दीश्वर स्त्वरक्षाधिप एव देव ! सकलान् विघ्नान्निजेध्नीयते । यत्प्रागेव समग्रयात्रिकजनवातस्य गत्रिदिवम् , तव्यापारविधौ समस्तु भगवंस्तत्ते कुतम्त्यः श्रमः ? ॥४॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy