SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) समाज्ञः सुतपःशक्ति-विद्याचंद्रमुनिः परः ॥ २२ ॥ तात्तीयीकः सचतुरमतिर्बालचंदोऽथवक्रो (भक्तो ?)। यः श्री शत्रुजयप्रमुख महा,-तीर्थयात्रामकार्षीत् ॥ श्री मद्वीजापुरमधिविभोर्वासुपूज्यस्य चैत्ये । प्रीत्याचाकारयदजितनाथांकितं खत्तकोट्यम् ।। २३ ॥ अजितसंभवयोरभिनंदन-सुमतितीर्थकृतोर्जिनगेहिकाः ॥ विनिरमापयदत्र च यश्चतु-विधसुधर्मरमानिलयानिव ॥ २४ ॥ यश्चैत्येऽत्र च दंडनालममलोद्यगुप्यपत्रोद्भटं । सन्मुक्तालिगुणं सहंसकनकश्रीकुंभचक्राश्रितम् ॥ तच्छत्रं वरपद्ममात्मदयिता पुण्याय चाधापय-ल्लोलंती चमरे च ये शुशुभतुर्हसाविवास्याग्रतः ॥ २५ ॥ यात्रा रैवतकादिषु प्रकृतवांस्तीर्थेषु संघान्वित-श्चैत्यार्चादिककार्यचिंतनमुनीसद्भक्तित्रा(न्या?)मलः ॥ श्रेयः श्रीवरकीर्ति कांतिललितैः सत्यां स्वकीयाभिधां । तन्वानः कुलचंद्रसाधु ऋजुधीस्तुर्यः समास्तेऽसकौ ॥२६॥ आदेशाच जिनेश्वरस्य सुगुरोः श्रीवासुपूज्यप्रभु-भासादे वृषभादिदेवगृहिकाप्रारंभ मारंभयत यस्तामादिजिनस्य देवगृहिकामाधापयद्वक्रमे । वर्षेऽष्टद्विशिखींदुमानविदिते (१३२८) माघे नवम्यां सिते ॥२७॥ एषां सहोदरा भग्नी । कुमारीत्यस्ति या व्यधात् ॥श्रेयोमालां द्विधा लातुं । तपः षडुपधानकम् ॥ २८॥ पद्मलानागपालस्य । नागश्रीश्चप्रिये प्रिये ॥ पुत्रवच्छीलतपसोः ॥ पालने नित्यमादृते ॥ २९ ॥ स्वांश्चभ्रूत्वनुकर्तुमत्र चतुरः पुत्रानसूतादिमा । साधुर्मोहन आद्य एषु जनुषा श्रेयो गुणैश्वापरः ॥ पाताख्यः शुभमूर्तिकोऽथ लखमोऽन्यो देवसिंहोलघु-ये धर्मेस्वपराभवे कुलगतं गच्छति तेजोनिजम् ॥३०॥ पद्मलाबाकृते साधु-र्मोहनः सुविधीशितुः ॥ कारयन् देवगृहिका-मुत्पताकं यशो व्यधात् ॥ ३१ ।। पाताख्यः श्रीसुपार्श्वस्य स्वाख्यया देवगेहिकाम् ॥ कारयामास यत्सूनुः । For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy