SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir यदि जीवितकल्लोला न गच्छेयुर्ममाऽध्वनि । तर्हि मन्मानसं तेषु कथं स्थिरतरं भवेत् सप्तच्छदसुगन्धस्य तरङ्गो बलवान् पुनः । उद्बोधयेन्मम स्नेहं प्रथमं सुखदोऽपि सन् अधुना शरवत्तीवां नैव कुर्यात्कथं व्यथाम् ? मृदुपुष्पचयोद्भेदे कि सच्याः स्याद्विलम्बनम् ? रश्मयः शशिनः कामशरा इव भवन्ति चेत् । मद्वक्षसि स्थिरीभय कथं निद्रासुखे मम स्रयेचेदमृतं पुष्पात् शान्तिदा वृष्टिरापवेत् । प्रभाते च हिमोत्पत्तिस्तदङ्गारसम मम यदन्यत् सुखदं लोके तत्सर्व मम दुःखदम् । वल्लमेन विनतर्हि वक्तव्यं किमतोऽधिकम् गुरूणामुपदेशेन मन्मनोरथसिद्धये । तपश्चर्यामहं तीवां प्रारमेहार्यनिश्चया अष्टोत्तरशताऽऽचाम्लविधानेन जिनेश्वरैः । वाञ्छिनार्थप्रदा सेयं प्रोक्ता कल्मषहारिणी व्रतमेतद्विधातुं मे पिनुम्पा सम्मतिः शुमा । प्रदत्ता धर्महेतुत्वे को विरुद्धमतिर्भवेत यस्मादाचरिते तादृग्वते दुर्भाग्यतानृणाम् । विनश्यति सदा श्लाघ्य सुभगत्वं च लम्पते मदीयकामनायास्तु स्मृतिर्नासीत्तयोहृदि । गुप्तवृत्तान्तमन्येन केनापि ज्ञायते न वै प्रत्यहं क्षीणदेहाऽहमभवं निजचिन्तया । ताभ्यामेवं कथं वृत्तियिते मन्मनोगता आन्तरिकव्यथा या आकस्मिकविचारणा । दैवयोगाकामुकायाः प्रास्फुरन्नम चेतसि तामनुसृत्य चित्राणि कतिचित्सावधानया । पटेषु लिखितान्याशु चित्रकर्म कलाविदा ॥ ५४०॥ ॥ ५४१॥ ॥ ५४२॥ ॥ ५४३ ॥ ॥ ५४४॥ ॥ ५४५॥ ॥ ५४६ ॥ ॥५४७॥ ॥ ५४८॥ ॥ ५४९॥ ॥ ५५ ॥ ॥५५१॥ ॥ ५५२ ॥ ॥ ५५३ ॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy