SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इदानीं तु यमेनैष वियोगः शाश्वतः कृतः । अतो मेऽनन्तदुखान्तः कथं कृत्वा भविष्यति परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि विधुना सह याति चन्द्रिका ननु विद्युत्सह धूमयोनिना । वनिता पतिमार्गगा इति विदितं चेतनवर्जितैरपि पुनर्व्याधः स आयतो यत्र में पतितः पतिः । विज्ञातं तेन तं दृष्ट्वा विपरीतमिदं कृतम् तस्माद्वयथया खिनः प्रोवाच सोऽपि दीनवाक् । हा! प्रभो ! किमिदं जातं अष्टलक्ष्यस्य मेऽधुना भयङ्करमिदं वाक्यं श्रुत्वा व्याघमुखोद्गतम् । उड्डीयाऽहं कियद्दूरं गता चाऽश्रुमुखीभयात् मत्स्वामिमरणेनैष भृशं दीनमना अभूत् । कुकृत्यकरणाद्भीता भवन्ति पापिनः क्वचित् । अथाssदाय स्वयं व्याघोsस्थापयत्स्वामिनं मम । चन्द्रोज्ज्वले रजःपुञ्जेः दिधक्षुः कृपयान्वितः पश्चादीत काष्ठान्यानेतुं स प्रयातवान् । तं ज्ञात्वाऽवसरं प्राप्ता पुनर्मद्भर्तुरन्तिकम् रुद्धवं महाधिसम्पीडिताऽहं सुदीनवाक् । रुदन्त्यगा सिषं स्वल्पां मरणान्तवचस्त तिम् तात्काष्ठभरं व्याधः समानीय समागतः । पुनरुड्डीय तद्भीत्या प्राप्ताऽहं नमसस्तलम् स पापो मम भर्त्तारं दुष्कृत्यकरणोद्यतः । वक्ष्यति वह्निना तूर्णमिति ज्ञातं मया ध्रुवम तस्माद् भ्राम्यन्त्यहं तस्य मृतकस्योपरिस्थले । निराशाराक्षसीग्रस्ता व्यलपं मुक्तकण्ठतः ततस्तु तेन पीठे सतृणीरधनुर्लताम् । विमुच्य मत्पतिः काष्ठचितायामभिसत्कृतः For Private And Personal Use Only ॥ ४०३ ॥ ॥ ४०४ ॥ ॥ ४०५ ॥ ।। ४०६ ॥ 11800 11 ॥ ४०८ ॥ ॥ ४०९ ॥ ॥ ४१० ॥ ॥ ४११ ॥ ।। ४१२ ।। ॥ ४१३ ॥ ॥ ४१४ ॥ ॥ ४१५ ॥ ॥ ४१६ ॥ Acharya Shri Kissagarsun Gyanmandir ZXXC***********
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy