SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कौशाम्बी नगरी तस्मिन् , स्वर्गपुरीव सम्पदा । वत्सदेशस्थितं मुक्ता-रत्नमिव विराजते ॥ ९९ ॥ अन्यासां नगरीणां साऽऽदर्शरूपास्ति केवला । यमुनायास्तटे सैव, रत्नभूताऽस्ति भासुरा । १००॥ उदयननराधीश-स्तां शशास पुरीं वराम् । संग्रामे भयदोरीणां, प्रतापोर्जितविक्रमः ॥१०१ ॥ साधुसाघीमहाभक्तः, सुहृदां सुखदायकः । गजाश्वरथपत्तीनां, बलेन प्रबलो महान् ॥ १०२ ॥ प्रफुल्लवदनो नित्यं, हैहयाऽभिधवंशजः । सस्वनः सिंहगति,-विख्यातो वसुधातले रूपशीलगुणैः ख्याता, विनीता कमलानना । अभूद्वासवदत्ताख्या, महिषी तस्प बालभा ॥१०४॥ राजस्तस्य बभूवैकः, ऋषभसेननामकः । सवया नगरश्रेष्ठी, सुहृत्सर्वजनैर्मतः अर्थशास्त्रविदां मुख्यः, सपा व्यवहारिणाम् । न्यायकर्ता समानेषु, जनेषु मित्रभावनः सत्यप्रियो दयानिष्ठो-लोकानां हितकारकः । निर्दोषजीवनो जन-धर्मरक्तो वणिग्वरः १०७॥ स्याद्वादवेदिनां मध्येऽप्यसौ सन्मानतां गतः । प्रमाणवचनं तस्य, गण्यते सर्वदा ननैः बा १०८॥ क्षमावान् शान्तचेतस्कः, साधुपङ्गरतः सदा । आदिमो धर्मकापु, बहुधोत्तमतां गतः ॥१०९॥ यतश्चोक्तम्चेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला. शक्तिः शान्तियुता मतिः श्रितनया श्रीदीनदैन्यापहा । रूपं शीलयुतं श्रुतं गतमदं स्वामित्वमुत्सेकता-निर्मुक्तं प्रकटान्यहो नव सुधाकृण्डान्यमून्युत्तमे ॥११०॥ BBC3333E: For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy