SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतार्थसद्गुरोराज्ञा,-धारकाः सर्वकर्मसु प्रत्याऽऽख्यानोदयेनैव, गृहस्थाऽऽवासवर्तिनः ॥७५१।। देशतोविरतिप्राप्य, त्यागधर्मानुरागिणः मन्यमाना गृहाऽऽवासं, पाशवज्जैनधर्मिणः ॥७५२॥ ब्राह्मणाः क्षत्रियावैश्याः शूद्रा ये जैनधर्मिणः गुणकर्मव्रताद्यैस्ते, भवन्ति मुक्तिगामिनः ।।७५३॥ धर्मराज्यमहीवित्त-स्वकुटुम्बादिरक्षिणः आत्मोपयोगयुक्तास्ते, मुक्ताः सन्तिगृहस्थिताः ॥७५४॥ धर्मयुद्धादिकर्माणि, चावश्यकानिशक्तितः कुर्वन्तिगृहिणोजैना, देशविरतिधारिणः ।।७५५॥ देशविरतितोऽनन्त,-गुणश्रेष्ठाःसुसाधवः आत्मोपयोगिनः सन्तो, रत्नत्रयीप्रसाधकाः ॥७५६॥ मेरुवत्साधवोबोध्याः सर्षपवद्गृहस्थिताः गृहस्थैः साधवः पूज्या, वन्द्याश्चविधिपूर्वकम् ॥७५७॥ संज्वलनकषायेण, युक्ताः पञ्चव्रतस्थिताः सरागसंयमव्यक्ताः प्रमादिनोऽप्रमादिनः ॥७५८॥ शस्यरागादिभिर्युक्ताः सम्प्रतिपञ्चमारके; श्रमण्यः साधवः सन्ति, सूरयोवाचकाः शुभाः ॥७५९॥ आत्मोपयोगयुक्तास्ते, सक्रियानिष्क्रियाश्चये; सुखदुःखप्रसङ्गेषु, स्वाऽऽत्मनः शुद्धिकारकाः ॥७६०॥ शुभाऽशुभविपाकानां, भोक्तारोऽपिह्यभोगिनः देहेऽनवर्तमानास्ते, मोक्षाऽनुभववेदिनः ॥७६१॥ ध्यानसमाधियोगेन, मुक्तिशर्माऽनुभूयते क्षयोपशमभावेन, मया प्राप्तः प्रभुर्महान् ॥७६२॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy