SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ३४ शुद्धब्रह्मरसास्वाद-, प्राप्तमाधुर्यजीवनात्; जीवन्ति ते यतः सन्तः, प्रभोर्जीवनजीविनः ॥ ३९२ ॥ आन्तरं जीवनं ज्ञान, मनन्तमुपयोगिनाम्; अनन्तवीर्यसम्पन्नं, जीवनं निर्मलं शुभम् ॥ ३९२ ॥ बाह्यजीवनजीवन्त, आन्तरं जीवनंविना; जीवन्ता स्ते मृताज्ञेयाः मोहजीवनजीविनः || ३९३ || बाह्यजीवननाशोऽस्ति, चानन्तं ब्रह्मजीवनम् : ब्रह्मजीवनजावन्तो, वैदेहाऽऽत्मस्वरूपिणः ॥ ३९४ ॥ आत्माधीनं मनःकायो-, वचश्च यस्य वर्तते; मनोवाक्कायपावित्र्या, त्तस्य स्वातंत्र्यजीवनम् ॥ ३९५ ॥ सद्बुड्या वर्तनं यस्य - दुर्बुड्या नैववर्तनम्, इन्द्रियाणां न दासोऽस्ति स्वतन्त्रश्चोपयोगवान् ||३९६ ॥ आत्मजीवनजीवन्तो, बाह्यजीवनजीवकाः अन्तर्बहिः स्वतन्त्रास्ते, प्रतिबन्धविवर्जकाः ||३९७ ॥ मनोवाक्कायगुतीनां -, धारकादोषवारकाः समितिवाहकाः सन्तः स्वतन्त्रा धर्मचक्रिणः ॥ ३९८ ॥ योग्याचारेण जीवन्तो, योग्याहारविहारिणः आत्माधानाश्च सर्वत्र, स्वाऽऽत्मोपयोगजीविनः || ३९९ || विवेकेन प्रवृत्ताये, आजीविकादिकर्मसु बाह्यजीवनसापेक्ष-, सर्वाचारविचारिणः ॥४०० ॥ मैत्रीभावेन वर्तन्ते -, माध्यस्थभावधारकाः प्रमोदभावसम्पन्नाः कारुण्यभाववाहकाः || ४०१ || सूपयोगं प्रकुर्वन्तो मनोवाक्काय कर्मणाम् ; आत्मानन्दरसोन्मत्ताः प्रभोर्जीवनजीविनः ॥ ४०२ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy