SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 ૩ર सम्प्रदायादिभेदस्थ, नृणां मुक्ति हि साम्यतः गच्छक्रियादिनिर्मोहा, याता यास्यन्ति सद्गतिम् ॥ ३६७॥ आत्मोपयोगिनः सर्व, कुर्वन्ति व्यवहारतः संलक्ष्य शुद्धमात्मानं, वर्तन्ते स्वाधिकारतः ॥ ३६८ ॥ सर्वधर्मीयशास्त्राणां मतानां चावलोकिनः असंख्यनयसापेक्ष-, सत्यार्थिनस्तु मुक्तये ॥ ३३९॥ असंख्यनयसापेक्ष - सत्यज्ञानस्य सागराः महावीरस्यदेवस्य, भक्ता जैना हि मुक्तिगाः || ३७०|| शुद्धात्मैव स्वगच्छोऽस्ति, सम्प्रदायो निजाऽऽत्मनि सर्वदर्शनरूपाऽऽत्मा, जानाति योऽस्ति साम्यवान् ||३७१ ॥ आत्मनः स्वांशरूपास्ता दृष्टयः सर्वधर्मिणाम् : अनुभूतो मयास्वाऽऽत्मा, नयैरेवमपेक्षया ॥ ३७२ ॥ बन्धोऽस्ति मोहभावेन, बाह्यतो निष्क्रियावताम् ; मोहविना तु निर्बन्धा, बाह्यतः कर्मकारिणः ॥ ३७३ ॥ परस्परोपकाराय, जीवाऽजीवाश्च सर्वदा: विश्वस्थ सर्वजीवानां परस्परमुपग्रहः ॥ ३७४ ॥ जीवाजीव सहायेन, जीवा जीवन्ति भूतले; मनुष्याणां विशेषेण, जीवाऽजीव सहायता ॥ ३७५ ॥ महीचन्द्रार्कसाहाय्या, ज्जीवानां जीवनं भवेत्, मातुः पितुश्च वृद्धानां निमितैरस्ति जीवनम् ॥ ३७६ ॥ अन्नपानाद्युपायैस्तु, लोकानामस्ति जीवनम् : जीवाजीवादितः सर्व, मन्नादिकं मिलेयतः ॥ ३७७|| नरा जीवन्ति धर्मार्थ, जीवाऽजीव सहायतः पारम्पर्येण मोक्षार्थ, जीवाद्या उपकारकाः ॥ ३७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy