SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૧૫ महावीरस्य जापेन, जनानां सद्गति ध्रुवम् । बोरजापसमो यज्ञो, - कलौ नान्यो भविष्यति ॥ ३२३ ॥ भवन्ति सर्वजातीया - जैना एव जिनाः स्वतः । कलौ जैनस्य पूजैव, जिनपूजाऽस्ति सत्तया ॥३१४॥ कलिकाले करालेsपि, महावीरस्य भक्तितः । सर्वखण्डस्थिताजैना - यास्यन्ति स्वर्गसद्गतिम् ॥३१५॥ महावीरप्रभोर्नाम - जापकार्यपरायणाः यादृशास्तादृशाजैना - यास्यन्ति स्वर्गसद्गतिम् ॥ २१६ ॥ कलिकालानुसारेण, वर्णावर्णव्यवस्थिताः । महावीरस्य जापेन, लोका यास्यन्ति सद्गतिम् ॥३१७॥ कलिकाले महाघोरे, महावीरः स्वबोधतः । तारकः सर्वविश्वस्य, भविष्यति न चान्यथा ॥ ३१८॥ ज्ञानक्रियायुता जैनाः, सर्वविश्वस्य तारकाः । भविष्यन्ति महावीर, -जापेन पञ्चमारके ॥३१९॥ महावीरस्य सत्प्रीत्या, सद्गतिः सर्वदेहिनाम् । अरिष्टनेमिना प्रोक्तं, कलौ सत्यं भविष्यति ॥ ३२० ॥ नयनिक्षेपसद्भङ्गैः, प्रमाणैश्च प्रतिष्ठितः । जैनधर्मोऽस्तु लोकानां सर्वदा शरणं महत् ॥३२१॥ जैनधर्मसमो धर्मा, न भूतो न भविष्यति । सर्वजातीयलोकानां तारको मोहवारकः ॥ ३२२ ॥ अरिष्टनेमिबोधेन, जातोऽन्तराऽऽत्मवान्प्रभुः । ज्ञापयामि जगल्लोकान, जैनधर्म सनातनम् ॥ ३२३॥ अरिष्टनेमिनाथस्य, पश्चात्पार्श्वप्रभोः शुभम् । शासनं वर्त्स्यति व्यक्तं, भारते लोकतारकम् ॥ ३२४ ॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy