SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिंसाऽस्ति व्यसनोरः हिंसादुर्गुणवृत्तयः सर्व हिंसादितो मुक्ता, वीतरागा जिनादयः ॥२४९॥ सर्वकर्मसु हिंसात्व, मल्पाधिक्यप्रभेदतः गृहस्थानां भवेत्तत्र, निबन्धा ज्ञानयोगिनः ॥२५०॥ दयावुद्धिं हृदि न्यस्थ, गृहस्था स्त्यागिनो जनाः स्वाःधिकारेण कर्माणि, कुर्वन्ति स्वोपयोगिनः ।।२५१।। यथा धूमावृतो वहनि, स्तथा सर्वप्रवृत्तयः सदोषा अपि कुर्वन्ति, ह्याजीविकादिकारिणः ॥२५२॥ निरासक्तितया सुज्ञा, यथायोग्यविवेकतः आत्मज्ञानोपयोगेन, कर्म कुर्वन्ति सज्जनाः ॥२५॥ द्रव्यभावदयाज्ञान,-विवेकेन प्रवर्तिनः स्वाऽधिकारेण कर्माणि, कुर्वन्ति यान्ति सद्गतिम् ॥२५४॥ हिंसावुद्धिर्न यस्याऽस्ति, शुद्धाऽत्मलक्ष्यधारकः सर्वकर्मप्रकुर्वाणोऽप्यहिंसाधर्मसाधकः ॥२५५। परस्परं च साहाय्य, कुर्वन्तु भव्यमानवाः परस्परोपकारेण, जीवा जीवन्ति भूतले ॥२५३।। परस्परोपकारोऽस्ति, जीवर्जडैश्चदेहिनाम् परस्परसहायेन, जीवन्ति विश्वदेहिनः ॥२५७॥ अतःस्वाभाविकं सत्यं, माहाय्यं च परस्परम् विज्ञायैवं जनाः सर्वे, भवन्तु स्वार्पिताः सदा ।।२५८।। दुःखिनां दुःखनाशार्थ, सहायिनो भवन्तु भोः स्वार्थेण कातरा नैव, भवन्तु विश्वमानवाः ॥२५९॥ देशजात्यभिमानेन, वर्णधर्माभिमानतः परस्परं न हिंसन्तु, भवन्तु सहयापराः ॥२६०॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy