SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ९३ ) Acharya Shri Kailassagarsuri Gyanmandir कुरु देवसमान्बाला-वृणु निर्भिस्वतन्त्रताम् । बलं विद्याऽथ साम्राज्यं, जैनधर्मस्य जायते ॥ ३२९॥ भोगः शक्तिर्दया दानं, बालसंघे निरोगिता । दुर्गुणव्यसनाद्दूरं, तत्र शक्तिः प्रजायते ॥ ३२२ ॥ बाले स्वतन्त्रता प्रेम, विद्यारोग्यबलानि च । सर्वनीतिकलास्ताभि-मिथ्यागर्यो न जायते ॥ ३२३ ॥ स्थित्वा गुरुकुले विद्यां, विद्यार्थी सेवयाऽऽप्नुयात् । धर्माचार्ये विनीतः स्यात्कदाचिन्न वदेन्मृषा ॥ ३२४ ॥ लभेत विनयाद्विद्यां, धर्माचार्य च सेवयेत् । ज्ञापयेद्गुरुदेवस्तं, मानवानां शुभाः क्रियाः ॥ ३२५॥ जैनधर्मस्य वेदाश्च, रहस्यं ज्ञापयेत्स्फुटम् । बालिका : शिक्षयेदेवं, विनयं प्रेमसेवनम् ॥ ३२६ ॥ लीपिभाषाक्रियाज्ञानं, नानाज्ञानं व शिक्षयेत् । शिक्षयेत्तं स्मरेद्याव - द्विद्यार्थी जायते महान् ॥३२७|| विद्यार्थिगुरुसाहाय्या-जायते सत्यमुन्नतिः पूज्योपकारको देवो-धर्माचार्योऽस्ति शीर्षवत् ॥३२८॥ हस्तौ बध्वा प्रणम्योऽसों, ध्यानं धर्मगुरोः कुरु । पठ सर्व कलाः प्रेम्णा, गुरुतः स्वानुभूतितः ॥ ३२९ ॥ विद्धि गुरुकुले वासं, बालानामष्टवर्षतः । वसेयुर्ब्रह्मचर्येण, गुर्वीपार्श्वे च बालिकाः ॥ ३३० ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy