SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagar Gyanmandit [५६] प्राणान्तेऽपि न मुञ्चन्ति-महावीरं च सद्गुरुम्। जैनधर्म न मुश्चन्ति, लोकास्ते प्रेमयोगिनः॥६५७ चित्तेन क्रियते यद्यत् , क्रियते यच्चवाचया। देहेन क्रियते तत्स्यात्, वीरस्य प्रेमपूजनम् ।६५८। महावीरमयं चित्तं, महावीरमयं वचः। महावीरमयो देहो भूयान्मे सर्वथा सदा ॥ ६५६ ॥ कृतं करोमि यत्सर्वं, करिष्यामि च भावतः। तत्सर्वं प्रेमयोगेन, भूयाद् वीरार्पणं सदा ॥६६०।। विश्वं प्रेममयं भूयात्. तथा श्रीजैनशासनम् ! सर्वसंघस्य मांगल्यं, भूयात्सर्वत्र सर्वदा ॥६६११ श्रीमहावीरगीतायां, भक्तियोगः प्रदर्शितः । तत्र सत्प्रेमतो मुक्ति-महावीरेण दर्शिता ॥६६२॥ मया तदनुसारेण प्रेमगीता प्रदर्शिता। महावीरप्रभोः पत्नी, यशोदा प्रेमरूपिणी ॥ ६६३ ॥ गृहादर्शस्तु लोकाना-मादेयो द्रव्यभावतः। महावीरस्य मे भूयात् , तथा प्रेमप्रवर्धकः ॥६६॥ त्यागादर्शमहावीरः, त्यागिनां मोक्षहेतवे। भूयात् सत्प्रेमयुक्तानां, सर्वकल्याणकारकः ॥६६५॥ त्यागादर्श महावीरे,गौतमस्वामिनश्च मे। शुद्धप्रेमास्तु लोकानां, सात्विकं शरणं महद् ।६६६। जैनानां जैनशास्त्राणां, सद्गुरूणां विशेषतः। सत्प्रेम पूर्णमोक्षाय, जायते पञ्चमाऽरके।६६७ तपोभिः संयमै पैः, किं फलं जायते कलौ। महावीरप्रभुप्रेम्णा. मोक्षो भवति देहिनाम् १६६८ For Private And Personal use only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy