SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavian Aradhana Kendra www.kobatrth.org Acharya Shri Kalassage sur Gyanmandir A A AAAAAAAAAAAAAAmouniorror प्रमिणां विरहो नैवं, सह्यते प्रेमिभिःकदा। यत्र प्रेम भवेत् तत्र, प्रमिणामात्मजीवनम् ॥२६॥ प्रेमाद्वैतं भवेत्सर्व, प्रमिणां संगमे सदा। प्रेमाद्वैतमयेजीवे, द्वैतं नास्तीति सम्मतम् ॥२६२।। प्रेमाद्वैतं विना सर्व, द्वैताद्वैतं च कल्पितम्। ब्रह्माद्वैतमपि प्रेमा-द्वैताद्भिन्नं न भासते ॥२६॥ विशिष्टाद्वैत ब्रह्मापि, शुद्धाद्वैतं तथा स्वयम्।प्रेमाद्वैते लयं यान्ति, साक्षात् स्वेनानुभूयते ।२६४॥ आविर्भावस्तिरोभाव-प्रेमैव जैनशासनम् । अद्वैतं केवलब्रह्म, प्रेमाद्वैतमनादितः ॥२६५॥ दिव्यं नैसर्गिकं प्रेम-साम्राज्यं सर्वतो महत्। यद्विना चक्रवर्त्याद्या-दुःखिनः सन्ति भूतले ॥ बाह्यसाम्राज्यमात्रेण, सुखं नास्ति मनीषिणाम्। आन्तरप्रेमसाम्राज्या-दानंदः प्रेमदेहिनाम् ।। किं लक्ष्म्या किं च राज्येन,किं भवेद् बाह्यविद्यया।शुद्धात्मप्रेमसाम्राज्यं, बिनासर्वं हि निष्फलम। शुद्धप्रेम न यत्राऽस्ति, तत्र वासेन किं फलम्। शुद्धप्रेम विना सर्व, श्मशानं दृश्यमात्रकम् ।१६६|| शुद्धप्रेम विना धर्म-शास्त्रं शस्त्रायते भुवि । शुद्धप्रेममयो धर्मो-जैनधर्मः स उच्यते ॥२७॥ शुद्धप्रेमैव वैराग्य-रंगो यस्य भवेद्धृदि। तस्य सत्यं भवेत्सर्व, मनोवाकायमात्रजम् ॥२७॥ किमाहारविहारेण, किं क्रीडाभिः परस्परम् ? पुरुषाणां त्रियां सत्य-प्रेम यत्र न हार्दिकम् ।२७२। [२३] For Private And Personal use only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy