SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir [१५] परस्परोपकाराय, सत्प्रेमेव प्रियंकरम् । प्राकव्यं तस्य कर्तव्यं, सर्वकर्त्तव्यकर्मसु ॥ १५३ ॥ सत्प्रेमणि वरं मृत्युः, प्रेमाऽभावेन जीवनम् । अमृतत्वं परं प्रेम, आत्मज्ञानेन लभ्यते॥१५॥ सर्वजीवैः सहप्रेम, मैत्रीभावाय जायते। ततः समत्त्वसंलाभात्, समाधिर्जायते सताम् ॥१५५॥ यत्रात्मैव परात्माऽस्ति, वेद्यतेऽनुभवः स्वतः। शुद्धप्रेम्णः समाधिस्तु,जायते नाऽत्रसंशयः॥१५६॥ पूर्वसंस्कारजं प्रेम, गुप्तं नैव कदा भवेत् । दृष्ट्वा परस्परं शीघ्र, प्रेमी प्रेम्णोपलक्ष्यते ॥१५७॥ मनोवाकायवित्तादि, तुच्छं नासामलादिवत्। स्वतन्त्रं सर्वदोत्कृष्टं,शुद्धप्रेम सदास्तुमः॥१५८॥ शुद्धप्रेमणि निर्दोष, विश्वं सर्वं खभावतः। वस्तुतस्तु स्वभावेन, ज्ञायते प्रेमयोगिभिः॥१५९॥ सर्वत्र प्रेमिभिर्दोषा-दृष्टव्या न परस्परम् । एकएव प्रभुर्वीरो विज्ञाय सर्वदेहिनाम् ॥१६०॥ कामादिवासनाजेता, प्रेमपात्रं भवेजनः। नीतिप्रेमप्रभावेण, मर्यादा प्रेमतां श्रयेत् ॥ १६१ ॥ परिपक्वमहाप्रेम्णो-व्यापकप्रेमजायते । व्यापकप्रेमलाभेन, भवेत्प्रेमी रसेश्वरः ॥ १६२ ॥ वैराग्यस्याऽपि वैराग्य-मास्तिकस्य विचारणा। प्रेमैव व्यापकं ब्रह्म स्तुवे पूर्णरसेश्वरम् ॥१६३॥ एकेन्द्रियादि जीवेषु, व्यापकाय नमोनमः। सर्वजातीय जीवेभ्यो नमः प्रेमविलासतः ॥१६॥ For Private And Personal use only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy