________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'वैराग्यभावना'
(वैतालीयवृत्तम् ) संसारमसारमधीः , समवेक्ष्यैष हिताय केवलम् । विषमार्जिमनुक्षणं जनो-भजते कर्मनियन्त्रितो भुवि ॥१॥ विदितश्रुततत्त्रमानवो-वचसातीतविरागभावनाम् । प्रतिपद्य यथाक्रमं तर-नपरांस्तारयितुं क्षमो भवेत् ॥२॥ विधिरेव विधातुमीश्वरः, सततं प्राणभृतां सुखादिकम् । वितथं वदति द्विषद्गणो-विषमं पीडयतीति मां मुधा ॥३॥ सुखसंपदतीव धर्मिणं, श्रयतेऽनन्यधिया धरातले । विमुखा हि भवन्ति दुर्धियो-निजधर्मादतिसङ्कटच्छिदः ॥ ४ ॥ विचरन विषमाध्वनि प्रियं, सुगम मार्गमतीत्य मानवः । विधुरं लभतेऽविचारतः, प्रतिहत् न तदस्ति शक्तिमान् ॥ ५ ॥ परमार्थसुखप्रदायको-यतिधर्मो जिनराजभाषितः । विधिना समुपासितः सितः, परलोकैकसुखस्य साधनम् ॥६॥ विभवा दयया विराधिताः, शुभया दुःखकराः प्रमादिनाम् । अत एव सुखार्थिभिर्जनैः, सदयः साधयितव्य एष वै ॥ ७ ॥ कलुषात्मनि धर्मभावना, न हि तिष्ठत्यकलङ्किता जने । निजकल्पितदुष्टचिन्तनं, जनयत्याशु विकारमुत्कटम् ॥८॥ समतोदधिरेष सर्वदा, सुखमत्यन्तमवाप्य मोदते । विकृति कलयन कश्चन, शिवशमैंति नराधमः क्वचित् ॥ ९॥
For Private And Personal Use Only