SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२८ ) ॥ २५ ॥ इन्द्रियाश्वा महावेगा - धावन्ति विषयार्थिनः । नीरागतामहामन्त्र - स्तद्वशीकरणे स्मृतः इन्द्रियाणि स्वतन्त्राणि, कमनर्थं न कुर्वते । अतस्तेषां निरोघाय, यतितव्यं मनीषिभिः ॥ २६ ॥ विषयान्स्मरतः पुंसः, कामः संजायते ध्रुवम् । कामेनाऽभिहतो जन्तुः, कार्याकार्यविमूढधीः ॥२७॥ किं कार्यं किमकार्यञ्च, नैव जानन्ति कामिनः । कामार्त्तो दुःखमामोति, परत्रेह च मानवः ॥ २८ ॥ वामः कामः कृतो येन, सत्यशर्मविघातकः । दुरन्तभवपाथोधि-मयत्नेन तरत्यसौ ॥ २९ ॥ कामः कुसुमधन्वाऽपि, हरते बलिनां बलम् । अबला छलिता येन, सनलाऽपि दुरात्मना ॥ ३० ॥ तपस्विनोऽपि कामस्य, मुह्यन्ति नाममात्रतः । श्रतस्तन्नामनिर्देशो - हातव्यः सर्वथा जनैः ॥ ३१ ॥ स्तवनं श्रीमहावीर - स्यैतत्सिद्धिविधायकम् । पठतां पठितं लोके - ऽजित सागरसूरिभिः Sisfac ॥ ३२ ॥ अथार्हत्स्तोत्रं प्रारभ्यते । त्रैलोक्यस्वामिनः सन्तः, सुवाचस्तश्वबोधकाः । अर्हन्तः शिवदा नित्यं कुर्वन्तु सुखसन्ततिम् ॥ १ ॥ " For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy