SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२१ ) सिद्धान्तस्य वर्णनम् । स सम्पदं दिशतु जिनोत्तमागमः, शमावहन्नतनुतमोहरोऽदिते । सचित्तभूः क्षत इह येन यस्तपः शमावहन्नतनुत मोहरोदिते ॥ ७५ ॥ स इति- यः ' तपः शमौ' तपश्च द्वादशविधं शमश्च-उपशमः इतीतरेतरद्वन्द्वः, तौ। “तपोलोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च, पुमान् शिशिरमाघयोः” इतिमेदिनी । “ तपः कृच्छ्रादिकर्मणि । धर्मे लोकप्रभेदे च, तपाः शिशिरमाघयोः ” इति हैमः । 'अहन्' हतवान । ' अदिते ' न दिते-अदिते-अखण्डिते । ' मोहरोदिते' मोहश्चमिथ्याऽभिनिवेशः रोदितञ्च-विप्रलापः ते। 'अतनुत' विस्तारितवान् । 'तनु' विस्तारे, 'अनद्यतने लङि' तिसूत्रेणात्मनेपदे प्रथमपुरुषैकवचनं कर्तरि । 'सः' ' चित्तभूः 'कामः । ' येन' विभुना । ' इह ' अत्र जगति । ' क्षतः ' ध्वस्तः । 'क्षण' हिंसायामितिधातोर्निष्ठाक्तप्रत्ययः। 'सः' ' शं' सुखम् । · आवहन् ' कुर्वन् । 'अतनुतमोहरः' । न तनु-अतनु-प्रभूतं तमोऽज्ञानतिमिरं हरतीति अतनुतमोहरः अथवा अतनुतमानूहान्-तर्कान् राति-ददाति यः, सः । 'जिनोत्तमागमः ' जिनेपूत्तमास्तेषामागमः, जिनानामुत्तमःश्रेष्ठो य आगमः-समयः इति वा, “ आप्तोक्तिः समयागमौ” इति हैमः । अर्हत्सिद्धान्तः । ' सम्पदं ' श्रियम् । · दिशतु' ददातु 'दिश्' अतिसर्जने इतिधातोराशीःप्रेरणयोरिति लोटःस्थानेतुप् १७५। - જિનસિદ્ધાંતની મહત્તા– Ram:-- ( माह अने साक्ष्यत२ ॥२ प्रा२ना ) For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy