SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११३) પાદમાં અઠ્ઠાવીશ માત્રામાં છે તેમાં બીજો અને છઠ્ઠો મધ્ય ગુરૂ જગણ અથવા ચારે લઘુ હોય તે દ્વીપદી છંદ કહેવાય છે – जिनवराणां प्रणमनम्-- स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुजासित जन्मजरं नमाम्यहं, सकलकला कलाऽपकलिताप मदारुणकरमपापदम् ॥७०॥ स्तौतीति-'सकलकलाकलापकलिता' सकलाः-समस्ताश्च ताः कलाश्व-विज्ञानानि, “कला तु मूलरैवृद्धौ, पोडशांशे कलानिधेः । त्रिंशकाष्ठात्मके काले, सूक्ष्मांशे सर्ववस्तुनः ॥ १ ॥ मनःशिलायां शिल्पे चै-कस्मिन्मांसादिधातुषु । कलने च कला प्रोक्ता," इतिशब्दसिन्धुः। तासां कलापः-समूहः, “कलापः संहतौ बर्हे काञ्चयां, भूषणतूणयोः । चन्द्रे विदग्धे व्याकरण-भेदेऽपि कथ्यते बुधैः " । इति मेदिनी । तेन कलिता-समन्विता । — अपमदा' अपगतो मदो यस्याः साविगताऽभिमाना । ' सकलकला' कलकलेन सहवर्त्तते सा सकलकला-सकोलाहला " पुंसि कोलाहले सर्ज-रसे कलकलः स्मृतः ” । इति विश्व० । 'कला' मधुरा। 'सुरावलिः'। सुराणां श्रेणिः । 'यं' जिनराजविसरं । 'समवसरणभूमौ,' समवसरणस्य भूमिस्तस्यां समवसृतिक्षितौ । 'समन्ततः' सर्वतः । ' स्तौति स्म' ष्टुञ् स्तुतौ धातोवर्तमाने परस्मैपदं स्मयोगे भूतार्थता वक्तव्या। वन्दते स्म । 'तं ' ' अरुणकरं' आताम्रकरं, सामुद्रिके सत्पुरुषाणां करक्रमारक्तत्वेन वर्णिताः । · अपापदं ' अपगता आपदो यस्मात्सः तंविगतपापविपदम् । ' उज्जासितजन्मजरं' जन्म च जरा च For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy