SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७३ ) नित्यमिति-(हे) ' अमदन' न विद्यते मदनो यस्येति बहुव्रीहिस्तत्सम्बोधनं मदनरहित !। ' अपापायासाद्यमानामदनत !' पापं-पातकञ्च आयासो विषादश्चेति समाहारद्वन्द्वः, तदादि येषान्ते दोषा न विद्यन्ते येषां मुनीनां ते अपापायासादयस्ते च ते अमाना मानहीनाश्च ते अमदास्त्यक्तमदाश्च ते-अपापायासाद्यमानामदास्तै त ! वन्दित ! । ' वसुधासार !' वसुधायां-पृथिव्यां सार !-उत्कृष्ट ! । 'तीर्थनाथ ! ' तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तस्य नाथ:स्वामी तत्सम्बोधनम् । तीर्थपते ! तीर्थशब्दोऽस्ति पुंक्लीबः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा । यदाहुः-“तित्थभन्ते ! तित्थं तित्थयरे तित्थं गोअमा! अरिहा ताव नियमा तित्थंकरे तित्थं पुण चाउवण्णे समणसंघे-पढमगणहरे वा” इति स्वसमयः। 'नीनूरमितृतुदिवचिरिचिसिचिश्वि०' (सिद्ध० उणा० २२७) इति कित्-थः। “तीर्थं शास्त्रे गुरौ यज्ञे, पुण्यक्षेत्राऽवतारयोः। ऋषिजुष्टे जले सत्रि–ण्युपाये स्त्रीरजस्यपि ॥ १ ॥ योनौ पात्रे दर्शने च” इति हैमः। 'ते' तव, ' हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवो-साध्यवस्तुगमकानि लिङ्गानि, उपपत्तयो युक्तयः, हेतुभिश्चोपपत्तिभिश्च हेतूनामुपपत्तिभिर्वा प्रतिहतः-प्रतिषिद्धः, कुमतान्येव कुमतमेव कुमतस्य वा प्रोद्धतः-प्रोदामः ध्वान्तबन्धस्तिमिरग्रन्थिर्यया सा। 'अपापाया' अपगता अपाया-विघाता यस्याः सा । ' आसाद्यमाना' प्राप्यमाणा, मुनिभिरित्यध्याहार्य । अपापायैर्निरपायैरासाद्यमानेत्येकं पदं वा। 'सुधासारहृद्या' सुधायाः आसार:वेगवान वर्षः सुधासारोऽमृतवृष्टिः स इव हृद्या-हृदयङ्गमा । “ आसारो वेगवान्वर्षः ” इतिहैमः । ' शेषश्चात्र-अथाऽऽसारे धारासंपात इत्यपि । ' 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्गः -सम्यग्दर्शनज्ञानचारित्ररूपस्तस्मिन् प्रणयः-स्नेहो येषां तैः साधुभिः १० For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy