SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६९ ) रक्ताते ! इत्यर्थः । तथा चोक्तम् । “ रक्तौ च पद्मप्रभवासुपूज्यौ” इति हैमः । “पउमाभवासुपुज्जा रत्ता" इत्यागमात् । 'अमाय!'न विद्यते माया यस्य स तत्संबोधने मायानिर्मुक्त!' असंसारवासावन!' न संसारवासं-भवावस्थानमवतीति, असंसारवासावनस्तस्यामन्त्रणम् । 'वर!' सर्वोत्तम!'"वरोऽभीष्टे देवतादे-र्वरोजामातृषिगयोः। श्रेष्ठेऽन्यवत्परिवृतौ, वरं कश्मीरजे मतम् ।। १॥ इतिविश्वः । 'नवालानबाहो ! ' नवः-प्रत्ययः, आलानो-गजवन्धनस्तम्भस्तद्वद्वाहू यस्य स तदामन्त्रणम् । “तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथशृङ्खले” इत्यमरः । 'श्रीप्रभव !' श्रियः प्रभवः उत्पत्तिस्थानं यस्मात्स तदामन्त्रणम् , अथवा संपदामुत्पत्तिस्थान ! । ' अहो! ' इत्यामन्त्रणे. हे श्रीवासुपूज्य !, वसुपूज्यस्याऽपत्यं पुमान् वासुपूज्यः, यद्वा गर्भस्थेऽस्मिन् वसु-हिरण्य-रत्नं तेन वासवो राजकुलं पूजितवानिति, वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः स एव वासुपूज्यः 'प्रज्ञादिभ्योऽण्' (सिद्ध०७-२-१६५) चतुस्त्रिंशदतिशयरूपया ज्ञानरूपया श्रियोपलक्षितवासुपूज्याभिधजिनेश्वर ! ।' आनम्रा' आ-समन्तात् नमनशीला । 'आयासं' अनवरतभवभ्रमणरूपं श्रमम् । 'विभ्रती' दधाना। 'सारवा' आरवेण सहवर्तत इति सशब्दा-प्रारब्धस्तुतिपाठा, मधुरस्वरेण स्तुतिं कुर्वन्तीत्यर्थः। 'अनवरतरसालीनवाला' अनवरतमजस्रं रसायां भूमिपीठे, (नमनसमये) आलीना-आश्लिष्टाः, वालाःकेशा यस्याः सा, अनेन भक्त्यतिशयः सूचितः । 'नवा' अभिनवा, अत्र यमकवशात् बवयोरैक्यं विज्ञेयम् । उक्तञ्च-रलयोर्डलयोस्तद्वज्जययोर्ववयोरपि । शसयोर्नमयोश्चान्ते, सविसर्गाऽविसर्गयोः ॥१॥ सबिन्दुकाऽबिन्दुकयोः, स्यादभेदेन कल्पनम् ॥ कतिपयवासरलब्ध बोधिरस्मदादिवदित्याकूतम् । तथाभूता। ‘भक्तिभाजां' भक्तिः पूज्येष्वनुरागः श्रद्धा वा तां भजन्ति ये ते भक्तिभाजस्तेषामाराधकानां, For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy