SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રનાં અને નિર્મળ એવાં પક્વોની માલાઓ અથવા શ્રેણિઓ છે જે સંબધી એવા ચરણયુગલને ધારણ કરનારી એવી શ્રીનિંદ્રશ્રેણું હને અતિશય હર્ષ—આનંદ આપે. ૫ ૩૪ છે ઇંદ્રવજા છે जिनवाणीस्तुतिः। जिनेन्द्र ! भङ्गैः प्रसभं गभीराऽऽ शु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात्__शुभाऽरतीशस्य तमस्तवेन ? ॥ ३५ ॥ जिनेन्द्रेति । ( हे ) · जिनेन्द्र ? ' ( हे ) — रतीशस्य' रत्याः ईशः रतीशः-स्मरस्तस्य । ' इन !' स्वामिन् ! । अथवा • अरतीशस्य' रतीशः-कामः स नास्ति यस्य स तस्य मुनेः इन ! मुनेरिति जातित्त्वादेकवचनम् । 'भङ्गैः' अर्थविकल्पैः। " भङ्गस्तरङ्गे भेदे च, रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्त्योः” इति हैमः ॥ 'प्रसभं' प्रकटमत्यन्तं वा “बलात्कारस्तु प्रसभं हठः” इति हैमः “प्रसभं तु बलात्कारे, चाऽत्यन्तेऽव्ययमस्त्रियाम् ।” इति शब्दसिन्धुः। 'गभीरा' दुरवगाहा। 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमस्तेनस्तवेन प्रशस्यतमस्तवेन,-स्तुत्या हेतुभूतया स्तुता सती। " स्तवःस्तोत्रं स्तुतिर्नुतिः” इत्यमरः। (रतीशस्य–कामस्य) · तमः' मोहमज्ञानम् । 'आशु' शीघ्रम् । “आशु व्रीहौ च सत्त्वरे" इति विश्वः। 'निर्नाशयन्ती' अपनुदन्ती। ' तव ' भवतः । 'शुभा' कल्याणी । 'भारती' वाणी — ब्राह्मी तु भारती भाषा' गीर्वाग्वाणी सरस्वती। इत्यमरः । 'मम' मत्सबन्धि । ' शर्म' सुखं । " शर्मसातसुखानि च " इत्यमरः । 'दिश्यात् ' देयात् ॥ ३५ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy