SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४२) जिनमतप्रशंसादिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्ध (सिद्धि) वासे ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ दिशदिति-संयतानां मुनीनां सदैव नित्यमेव । ' उरु' बृहत् । ' उपशमसौख्यं' प्रशमसुखम् । 'दिशत्' ददत् । ' उदारं' उदात्तं । " महेच्छे तूझूटोदारोदात्तोदीर्णमहाशयाः। महामना महात्मा च” इति हैमः। “ अथोमहेच्छेऽनुदार उदारोदातकावपि ॥" शद्ध रत्ना० 'काम' अत्यर्थम् । “ काममसूयाऽनुगमे, प्रकामेऽनुमतावऽपि " इति हैमः । ' आयामहारि' आयामेन आयतत्त्वेन हारि-मनोहरम् । “ दैर्ध्यमायाम आरोहः, परिणाहोविशालता" इत्यमरः । 'जननमरणरीणान्' जननं च मरणश्च ताभ्यां रीणान-खिन्नान (जीवानित्यर्थः) । " स्यन्ने रीणं स्नुतं सुतम् ।” इति हैमः । 'अरुजि' रोगरहिते, 'सिद्ध (द्धि) वासे' सिद्धिरेववासस्तस्मिन् सिद्धिस्थाने । 'वासयत्' वासं कारयत्। 'काममायामहारि' कामश्च माया च तयोर्महारिमहाशत्रुरिव महाचक्रमिव वा, महावैरीभूतम् । अथवा काममायामहारि, कामश्च माया च आमोरोगश्च तान हरतीत्येवं शीलं । 'जिनमतं' अर्हत्सिद्धान्तं, “मतं स्यात् संमतेऽर्चिते” इति हैमः। 'मुदा' हर्षेण । ' अरं' शीघ्रं । काममत्यर्थं सदैव-नित्यं । ' नमत ' नमस्कारं कुरुत. अत्र सदैव काममरमिति क्रियाविशेषणेऽपि योज्यन्ते । २७ જિનમત પ્રશંસા પ્લેકાર્થ–સંચમિ જેને હંમેશાં ઉત્તમ પ્રકારનું ઉપશમ સુખ આપનાર, તેમજ અનેક વિષયના વિવેચનથી ભરપૂર For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy