SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) - सकलजिनेश्वराणामभ्यर्थनाजिनवराः ! प्रयतध्वमितामया ममतमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः ॥१४॥ जिनवरा इति । ' हे जिनवराः ! ' जिनेषु-सामान्यकेवलिषु वराः श्रेष्ठास्तत्सम्बोधनं हे सामान्यकेवलिश्रेष्ठाः ! । ' इतामयाः !' इताः-गता आमया रोगा येषां येभ्योवा तत्सम्बोधनं, हे गतरोगाः ! 'महारिणः !' महान्ति-तेजोवन्ति, अरीणि-चक्राणि-धर्मचक्रलक्षणानि येषां ते धर्मचक्रवर्तिनस्तेषामग्रे धर्मचक्रचालनादिति भावः। “अरं शीघ्रं च चक्राऽङ्गे, शीघ्रगे पुनरन्यवत्” इति विश्वः। 'भुवि ' पृथिव्यां । · विश्वजनीनता' विश्वेभ्योजनेभ्यो हितस्तद्भावस्ताम् । ' प्रदधतः ' धारयन्तः । ' अमतमोहरणाः ! ' मोहश्च रणश्च मोहरणौ न मतौ मोहरणौ-अज्ञानसंग्रामौ येषां ते अमतमोहरणाः ! । “ अस्त्रियां समराऽनीक-रणाः कलहविग्रहौ” इत्यमरः । 'यमहारिणः यम-मृत्युं हरन्ति इत्येवं शीलास्तत्सम्बोधनं हे मृत्युहरणशीलाः ! “ यमः कृतान्तः पितृदक्षिणाशाः प्रेतात्पतिः ” इति हैमः। अथवा मतस्य मोहो मतमोहो-दर्शनमूढत्वं तस्माद् रणः कलहो वादलक्षणो न विद्यते येषां ते अतमोहरणाः। 'यमहारिणः' यमाः-अहिंसा सत्याऽस्तेयब्रह्मचर्याऽपरिग्रहलक्षणाः पञ्च ते हारिणोमनोहरा येषां ते यमहारिणः । ' मम' मे । ' तमोहरणाय' तमसोऽज्ञानस्य हरणं-विनाशस्तस्मै अज्ञानविनाशाय । ( यूयं ) ' प्रयतध्वं' प्रयत्नं कुरुध्वम् । 'यती' प्रयत्ने धातोराशीः प्रेरणयोरितिसूत्रेणाऽऽत्मनेपदे मध्यमपुरुषबहुवचनम् ॥ १४ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy