SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १९ ) वज्रशृंखलायै प्रणाम: Acharya Shri Kailassagarsuri Gyanmandir शृङ्खलभृत्कनकनिभा या तामसमानमानमानवमहिताम् । श्रीवज्रगृङ्खलां कज यातामसमानमानमानव महिताम् ।। १२ ।। " शृङ्खलभृदिति । ( भो भव्यप्राणिन् ! त्वं ) ' शृङ्खलभृत् ' शृङ्खलमाभरणं बिभर्ति सा शृङ्खलधारिणी । 'कनकनिभा' कनकस्य - हाटकस्य नियतं भाति-निभा- तुल्या सुवर्णवर्णा, कनकस्य- सुवर्णस्येव निभा सादृश्यं यस्याः सेति वा, कान्तिसाम्यात् । " कल्याणं कनकं महारजतरैगाङ्गेय रुक्माण्यपि " इति हैमः । 'या' देवता, अस्ति । अस्मिन्वाक्ये ऽस्तीत्यध्याहियते येन विना यदनुत्पद्यते तत्तेनैवाऽऽक्षिप्यते, तथा च-“अह्ना विना न सूर्य:, सूर्यविहीनश्च वासरोनाऽस्ति । “कर्त्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः" इति वचनात् । 'तां' तथोक्ती 'असमानमानमानव महितां' असमानोऽसाधारणो मानः- पूजा बोधो वा येषां ते असमानमानाचते मानवाश्च तैर्महितामर्चिताम् । 'कजयातां' कर्ज - पङ्कजं याता - प्राप्ता तां कमलगतां ' अनवमहितां ' अवमंपापं तन्नविद्यते येषां तेऽनवमाः पापरहितास्तेभ्योहितां - हितकारिणीम् । अथवा असमानौ - असदृशौ, आनमानौ - प्राणाऽहङ्कारौ येषां तेऽसमानमानास्ते च ते मानवाश्च तैर्महिता - पूजिता ताम् । 'श्री वज्रशृङ्खला ' श्रिया सहितां, “श्रीशब्दो महत्वप्रतिपादकः पूज्यनामादौ प्रयुज्यते, श्रीवत्रशृङ्खलां देवीं । ' असमानं ' समानं न विद्यते यस्मिन्कर्मणि यथा स्यात् - असाहङ्कारं । आनम ' प्रणामं कुरु ॥ १२ ॥ "" 1 6 , શ્રી વજ્રશૃંખલાને પ્રણામ— "लोअर्थ—ने हेवी शृंभता (३भी आभूषण ) ने धारण रे For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy