SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन सूक्त ० ॥ ३३ ॥ www.kobatirth.org. सुत्यजं रसलाम्पटयं, सुत्यजंदेवभूषणम् । सुत्यजंदेवभूषणम् कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ॥ १५॥ स्व-दोषनिवोलोक - पूजा स्याद् गौरवं तथा । इयतेव कदर्थ्यन्ते, दम्भेन बत वालिशाः ॥ १६ ॥ अब्जे हिमं तनौ रोगो, बने वह्निदिने निशा । ग्रन्थे मौख्ये कलिः सौख्ये, धर्मे दम्भउपप्लवः ॥ १७ ॥ धर्मीति ख्यातिलोभेन, प्रच्छादितनिजाश्रवः । तृणाय मन्यते विश्वं, हीनोऽपि धृतकैतवः ॥ १८ ॥ आत्मोत्कर्षात्ततो दम्भी, परेषां चापवादतः । बध्नाति कठिनं कर्म, बाधकं योगजन्मनः ॥ १९ ॥ आत्मार्थिना ततस्त्याज्यो, दम्भोऽनर्थनिवन्धनम् । शुद्धिः स्यादृजुभूतस्येत्यागमे प्रतिपादितम् ॥ २० ॥ अध्यात्मरतचित्तानां, दम्भः स्वल्पोऽपि नोचितः । छिद्रलेशोऽपि पोतस्य, सिन्धुं लङ्घयतामिव ॥ २१ ॥ दम्भलेशोऽपि मलयादेः, स्त्रीत्वानर्थनिबन्धनम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥२२॥ अ. प्र. दम्भत्या० ६६ लोभः सर्वेषामपि पापानां निमित्तं लोभ एव हि । चातुर्गतिकसंसारे, भूयोभ्रमनिबन्धनम् ॥ १ ॥ ध. पृ. ४६ लोभात् क्रोधः प्रभवति, लोभात् कामः प्रजायते । लोभात् मोहश्च नाशश्च, लोभः पापस्य कारणम् ॥ २ ॥ हि. मि श्लो. २७ आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ ३॥ यो. प्र. ४ श्लो. १८ अहो लोभस्य साम्राज्य - मेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ ४ ॥ प्र. ४ श्लो. २ प्राप्योपशान्तमोहत्वं, क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ५ ॥ यो. प्र. ४ श्लो. ७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ६६ लोभ ॥ ३३ ॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy