SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. -rum...... ... तस्याभूत् समराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुन स्तस्यासीत्तनयो नयोजितमतिर्मीमाभिधानः सुधीः॥२४॥ लालूरित्यजनिष्ट तस्य गृहिणी पद्मेव पद्मापते रिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोरिव जयः पित्रोर्मनःप्रीतिकृद् विष्णोः सिंधुसुतेव तस्य जसमादेवीति भार्याऽभवत् ॥२५॥ सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभूतामुभा___ वस्त्येको वजिआभिधः सदभिधोऽन्यो राजिआह्वः सुधीः । पित्रोः प्रेमपरायणौ सुमनसां वृंदेषु वृंदारको शर्वाणीस्मरवैरिणोरिव महासेनैकदंताविमौ ॥ २६ ॥ आद्यस्य विमलादेवी देवीव सुभगाकृतिः । परस्य कमलादेवी कमलेव मनोहरा ॥ २७ ॥ इत्यभूतामुभे भार्ये द्वयोधवयोस्तयोः । ज्यायसो मेघजीत्यासीत् सूनुः कामो हरेरिव ॥२८॥ युग्मम् ॥ सुस्निग्धौ मधुमन्मथाविव मिथो दस्राविव प्रोल्लसद् रूपौ ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहं । अन्येद्युतहदिभ्यसभ्यसुभगं श्रीस्तंभतीर्थ पुरं प्राप्तौ पुण्यपरंपराप्रणयिनौ तौ द्वावपि भ्रातरौ ॥ २९ ॥ तत्र तौ धर्मकर्माणि कुर्वाणौ स्वमुनार्जितां । श्रियं फलवतीं कृत्वा प्रसिद्धि प्रापतुः परां ॥ ३० ॥ काबिल्लदिपतिरकबरसार्वभौमः स्वामी पुनः परतकालनृपः पयोधेः । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy