SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Acharya hi s agarten Gyomande भीमसेनचरित्रे । द्वादशः सर्गः। ॥६७॥ १४॥ तत्र रम्पतरोधाने, पचिनादनिनादिते । केवली समवाऽसार्षी-मुनिवृन्दविभूषितः ॥१२॥ वनपालस्ततो गत्वा, मुनेरागमनं शुभम् । न्यवेदयन्मदा राजे, बद्धाञ्जलिपुटोऽञ्जसा ॥१६॥ भीमसेनस्ततोदवा, तुष्टिदानमनल्पकम् । उद्यानरविणे सञ्जो-ऽभवदर्शनवाञ्छया ॥१७॥ परीवारवृतोभीमः, समेत्य समताऽन्वितम् । ववन्दे केवलीशं तं, विधिवद्वनभूमिकाम् ॥१८॥ ततोनच्चा मुनीनन्यान्, भूपतिर्भव्यमानसः। कृतार्थीकृतवान् स्वीय-मात्मानं निर्मलाऽऽत्मनः ॥ १९ ॥ तस्थुर्यथोचितस्थाने, भीमसेननृपादयः। धर्मश्रवणसोत्साहा-स्तुष्णी योगिजना इव ॥ २०॥ धर्मलाभाऽऽशिर्ष दवा, बीजं मोचमहातरोः । प्रारेमे केवलज्ञानी, देशनां क्लेशनाशिनीम् ॥२१॥ यादृचाणि पुरा राजन् ? कर्माणि विहितानि वै । भुक्तानि तादृशान्यत्र, जीवेन कर्मवर्त्तिना ॥ २२ ॥ यद्येनोपार्जितं कर्म, तत्तेनैव शुभाशुभम् । अवश्यमेव भोक्तव्य-मित्याहु - निनोजनाः ॥ २३ ।। श्रुत्त्वेति भीमसेनोऽथ, पप्रच्छ विनयाऽन्वितः । मवेऽस्मिन्बहुदुःखानि, मयाऽऽप्तानि मुनीश्वर ?॥२४॥ वर्तिक मया भवे पूर्वे, पापकर्म विनिर्मितम् । सर्वमेतत्समाचक्ष्व, ज्ञानिना किमगोचरम् ॥ २५॥ भगवान्केवली प्रोचे, भृणुष्व भीमभूपते १। प्राग्मवोपार्जितं वृचं, सुखदुःखनिदानकम् ॥ २६ ॥ जम्बुद्धीपामिधे द्वीपे, भरतक्षेत्रमूर्जितम् । समस्ति यस्य वैतात्यो-मध्यदेशे विराजते ॥ २७ ॥ यस्मिन् भ्राजन्ति भूयासि, शाश्वतानि जिनेशितुः । रम्याऽऽकाराणि चैत्यानि, विमानानीव नाकिनाम् ॥ २८॥ पद्मद्रहश्च यत्राऽस्ति, निर्मलोदकसंभृतः। विकसद्वारिजश्रेणी-राजहंसैः समाश्रितः ॥२६॥ गङ्गासिन्धू प्रवते, यतः शुद्धतरापगे । जगत्रयाऽऽतपच्छेद-विधानकपरायणे ॥३०॥ तस्याऽस्ति दचिणाझैख्ये, भरते मध्यसंस्थिता । वाराणसी पुरी भव्या, भव्यमानवभूषिता ।। ३१ ।। सिंहगुप्तनराधीशा, प्रौढविक्रमलालितः । ॥६७ For Private And Personale Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy