________________
Acharyash
agan Gyaan
श्री
एकादशः सर्गः।
भीमसेनचरित्रे।
उपस्थजिहादिहपीकदण्डिता-भजन्ति रम्याण्यविचारितान्यहो ? असज्जनानामिह मानवा अमी, मतानि दुष्टान्यपि मूढमानसाः ॥ २६२ ॥ पुनर्न सुप्रापमिदं नराणां, सदोधिरत्नं भवसागरेऽस्मिन् । भ्रष्टं स्वहस्ताद्विमलं स्वरत्न, यथा महामन्यमगाधवाद्धौं ॥ २६३॥ सुप्रापं भुवने सुराऽसुरनराधीशाधिपत्यं नृणां, सौभाग्योत्तमवंशविक्रमकलारम्याङ्गनादि प्रियम् । सर्व वस्तुकदम्बकश्च विशदं त्रैलोक्यचेतोहरं, किन्त्वेकं तदिदं सुदुर्लभतरं सद्बोधिरत्नं जनाः ॥ २९४ ।। दीव्यनिमाभिः खलु भावनामि-ओनी सदाऽतीन्द्रियमक्षयं शम् । इहैव संयाति सुबोधदीपः, प्रकाशते चास्य हृदि प्रकामम् ॥ २९५ ।। मुक्तिश्रियोद्वादशभावना इमा-भवन्ति सख्यः शुभसंगमोत्सुकैः । तस्यास्ततोमुक्तिरमा बुधैः सदा, मैत्री विधेयाशु वृणोत्यसंशयम् ॥ २९६ ॥ भीमसेननराधीश ?, त्वयैवं भावनाः शुभाः । चिन्तनीया अचिन्त्याना, सुखानामेकहेतवः ॥ २९७ ॥ पवित्रा देशनामित्थं, निशम्य सूरिणोदिताम् । अमन्दानन्दभृब्रूपो-ववन्दे मुनिपुङ्गवम् ॥ २९८ ॥ अथाऽ सम्यक्त्वमूलानि, व्रतानि द्वादश स्वयम् । श्राद्धोचितानि जग्राह, सूरिपार्थाद्विनीतवाग् ॥ २९९ ॥ ततो विजयसेनोऽपि, धृतसम्यक्त्वसद्गुणः । चितिप्रतिष्ठं संप्राप्य, रचतिस्म निजाः प्रजाः ॥ ३०॥ हरिषेवमुनीशोऽपि, विहारं कृतवाँस्ततः । कर्मसंन्यसनं कर्नु, विहिताऽनन्यसन्मतिः ॥ ३०१॥
आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः श्रीयुतबुद्धिसागरगुपत्पादसेवारतः। तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गो भीमनरेशचारुचरितेऽगात्पूर्तिमेकादशः ॥ ३०२ ॥
इति श्रीभीमसेननृपचरित्रे एकादशः सर्गः समाप्तः ॥ ११ ॥
॥६६॥
For Private And Person
Only