________________
Achana
agarson Gyarmande
क्रुद्धचेतसम् ॥८०॥ राजनिम विजानीहि, महान्तमुपकारिणम् । दुःस्थितस्याऽसहायस्य, ममेम्यैकशिरोमणिम् ॥१॥ | चक्रवत्परिवर्तन्ते, दुःखानि च सुखानि च । कर्मयंत्रनियुक्तानां, संसारपरिवर्तिनाम् ॥२॥ नास्ति दोषोऽस्य वणिजः, कर्मणां मम भूमिप ? | निमित्तमात्रोऽस्त्यपरः, सुखदुःखविधानके ॥ ८३॥ तस्मादस्योपरिक्रोधो-विधातभ्यो न वै त्वया । बुद्धिमन्तोऽपि मनुजाः, स्खलन्ति हि कदाचन ॥ ८४ ॥ अरिञ्जयमयाऽऽचख्यौ, समयसो नराधिपः। आगमं भवतो ग्राम, सेवार्थ भवदन्तिके ।। ८५॥ भवता नैव सेवायां, रक्षितोऽहं सुदुःखितः। ततो देवादिहागत्य, सकुटुम्बोऽहमावसम् ॥८६॥ श्रुत्वैतद्वचनं भैम, लजितोरिञ्जयोऽवदत् । अज्ञानात्सर्वमेतद्धि, जातं राजन् ? क्षमख मे ॥८७॥ भीमोऽवादीत्ततो राजन् ? न ते दोषोऽस्ति कश्चन । किन्तु मकर्मणो दोषं, विद्धि पूर्वार्जितस्य वै ॥८॥ सुखदुःखमयीं वार्ता, विधाय नृपसत्तमौ । मुमुदाते हि केषांनो, तोषः संबन्धिदर्शनात् ।। ८६ ॥ तत्रारिञ्जयभूजानि-रुषित्वा कति वासरान् । सुखेन स्वपुरं प्राप, समाहितमनोरथः ॥१०॥ इतो राजगृहे रम्ये, पुरे राज्यधुरंधरः । हरिषेणनराधीशो-ज्येष्ठबन्धुमनुस्मरन् ॥ ११ ॥ तन्मयत्वं समापेदे, राज्यलक्ष्म्या तिरस्कृतः । स्वदुष्कर्मोदयेनैव, सदा विह्वलमानसः ॥ ३२॥ युग्मम् ।। क्वापि घोष वितन्वानो-व्यलपत्स मुहुर्मुहुः । त्यक्तवस्त्रादिसंभूषो-बभ्राम प्रतिचत्वरम् ॥ ६३ ॥ अमात्यैरुपदिष्टोऽपि, न तच्छिक्षां दधार
सः । स्वभार्या ताडयित्वेति, कथयामास रोषतः॥९४॥रे दुष्टे ? त्वगिरा ज्येष्ठो-भ्राता मे पितृसंनिभः । निर्वासितो विदेHशेषु, मया त्वद्रक्तचेतसा ॥ ९५ ॥ भ्राता मे दु:खितो भूरि, भार्यापुत्रसमन्वितः । क भविष्यति रे रएडे ! कथं तस्य समा
गमः ॥६६॥ अदृष्टव्याऽऽनने ? दूरं, याहि श्याममुखाकृतिम् । विघायात्र त्वया स्थेयं, नेति तां निरवासयत् ॥१७॥
For Private And Personlige Only