________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ૬ निर्विकल्पदशाकाले. ब्रह्माऽऽनन्दः समुल्लसेत् ; ततःपश्चादुपादेयं, शुद्धब्रह्मैवकेवलम् ॥६५॥ नाऽन्यत् किञ्चिदुपादेयं, भवेदाऽऽत्मोपयोगिनाम् शुद्धोपयोगआदेयः स्वभावेनभवेत्स्वयम् ॥६५६॥ शुभोपयोग एवाऽस्ति, सविकल्पसमाधयः शुद्धोपयोग एवाऽस्ति, निर्विकल्पसमाधयः ॥६५७॥ प्रशस्यरागयोगेन, सविकल्पत्वमिष्यते; रागद्वेषौनयत्रस्त, स्तद्ध्यानंनिर्विकल्पकम् ॥६५८॥ शस्यरागविकल्पाना, मुपयोगेऽस्तिसम्भवः शुभोपयोग इष्यः सः शुद्धोविकल्पमन्तरा ॥३५९॥ रागद्वेषादिसङ्कल्प-विकल्पानांसमुद्भवः नास्तियत्रसबोद्धव्यः शुद्धोपयोगइष्टदः ॥६६०॥ मनोवाकायगुप्त्याच, निर्विकल्पोपयोगतः प्रादुर्भवन्तिवेगेन, स्वाऽऽत्मनोलब्धिसिद्धयः ॥३६१॥ प्रथमःसविकल्पोऽस्ति, स्वोपयोगःशुभङ्करः विकल्पध्यानतःपश्चा, निर्विकल्पंप्रकाशते ॥६३२॥ निर्विकल्पोपयोगेन, केवलज्ञानभास्करः प्रादुर्भवतिसःसत्य-लोकाऽलोकप्रकाशकः ॥६६३॥ आत्मधर्मपरीणामः शुभाशुद्धश्चहार्दिकः समाधिरेवबोद्धव्यः सम्यग्दृष्टिमनीषिभिः ॥६६४॥ मनोवाकाययोगाना, माऽऽरोग्यंचप्रवर्तनम् : समितिगुप्तिसत्कर्म, समाधियोगउच्यते ॥६६५॥ मनोवाकाययोगानां, धर्ममार्गप्रवर्तनम् ; बाह्यआभ्यन्तरोयोगो, द्रव्यताभावतस्तथा ॥६६६॥
For Private And Personal Use Only