SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ अनादिकालसंयोग, आत्मनः कर्मणो द्वयोः आत्मा निजाऽऽत्मभावेन, कर्महन्ता स्वयंभवेत् ॥५४७॥ सर्वशक्तिमयः स्वाऽऽत्मा, दैन्यं किञ्चिन्न धारय सर्वशक्तिप्रकाशार्थ, यतस्व पुरुषार्थतः ॥५४८॥ आत्मोल्लाससमुत्साहा, ज्जीव !! शुद्धाऽऽत्मनिस्वयम् । आत्मानन्दरसास्वाद, कुरुष्व स्वाऽऽत्मभावतः ॥५४९॥ आत्मानन्दाऽमृतपीत्वा, भवमग्नो निजाऽऽत्मनिः सर्वसाधनतः साध्य, माऽऽत्मानन्दस्यजीवनम् ॥५५०॥ स्वलक्ष्ये निश्चितं ध्येयं, पूर्णानन्दरसोदधेः कर्तव्यं सर्वथा पानं, त्यक्त्वा मोहविषं द्रुतम् ॥५५१॥ मनः स्वर्गों मनःश्वभ्रं, संसारो मन एवच मोहरूपं मनो जित्वा, मुक्तो भवति चेतनः ॥५५२॥ मनोनाशाद्भवेन्मृत्यु मोहादि कर्मणां द्रुतम् । मोहक्षयेन मोक्षोऽस्ति, मोक्षेऽनन्तं सुखं सदा ॥५५३॥ पर्यायाणांगुणानाञ्च, व्यक्तभावोऽस्तिसिद्धता, सन्तस्तेव्यक्तिरूपेण, भवन्ति गुणपर्ययाः ॥५५४॥ व्यक्तीभवन्तिनाऽसन्तः सन्तोव्यक्ताभवन्तिते; नाऽसतोजायतेसत्त्वं, सतोऽसत्त्वं न जायते ॥५५॥ गुणा अनन्तपर्याया, आत्मनिसन्ति सत्तया: सद्भ्यः सामर्थ्यपर्याया, अनन्ता व्यक्तभावतः ॥५६६॥ आत्मा सामर्थ्यपर्याय-, व्यक्तीभावात् भवेत्प्रभुः सिद्धोबुद्धोजिनेशाऽऽत्मा, स्वयम्भुभगवान् विभुः ॥५५७॥ अव्यक्तः सत्तया स्वाऽऽत्मा, व्यक्तोऽव्यक्तगुणादिभिः अव्यक्ताः सन्ति सद्व्यक्ताः पर्यायाश्चगुणा निजे ॥५५८॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy