SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कम् लोकचालोकश्च लोकालोको तौ प्रकाशयतीति लोकालोकमकाशकम् । जन्मातीतं सम्मूर्च्छनगर्भोपपादलक्षणं जन्म ति यंगादि देहभाजामेव भवति शुद्धनयेनात्मनि तु नैतद् घटतेऽ न्यथा सिद्धेष्वपि प्रसक्तिः । जरातीतम्-अभुक्तभोगा अपिघटादयश्चिरकालेन जीर्णसंस्थाना दृश्यन्त आत्मतत्त्वं तु नेदृक् । देहातीतम्-कार्मणदेहाऽनादिसिद्धत्वाज्जन्मरहितो जरारहितश्च तद्युक्तश्चेतन, लक्षणत्वेन मा प्रसाङ्गीदित्यभिप्रायेण देहातीतमि ति यस्यौदारिकादयः पञ्चापि देहा ज्ञानदर्शनादिवत् स्वरूपत्वेन नैव सम्बद्धा इत्यर्थः चिन्मयं ज्ञानमयं निलेप शुद्धनिश्चयनयापेक्षया कर्मलेपरहितम् ।निराकारम् परमाणुस्कन्धशिवक्रघटादयः साकारा दृश्यन्ने तद्भिनम् । निस्सहं-कर्ममूलक ग-द्वेषादि संगरहितम् । महोमयं महोभिः प्रकाशलक्षणानरूपतेजोभियाप्तं । असंख्यप्रदेशरूपात्मव्यक्त्या अजं प्राग्भावरहितं नहि किञ्चिदपि मतमवलम्बमानो वक्तुं शक्नोति तत्कालत उदपादि जीव इति विद्वज्जनः नन्वेवंभूतं तु जीवतत्वं साङ्ख्य वेदान्तादयो निरदीधरन् ततः किमर्थमुदघोषि तेषु सांख्यादिषु मिथ्यावाडिण्डिमोनाचारिति चेभैवं तेषां एकनयावलम्बित्वेन मिथ्यात्वव्यवस्थितेः। स्वयंभुवं स्वतो लब्धसत्ताकं केनाप्यक्रियमाणत्वात् । अनाद्यन्तम् आद्यन्तरहितम् । साक्षरम्द्रव्याथिकनयायक्षया आत्मगुणपर्यायाणां यः क्षरः पातस्तद्रहितमेतादृशमात्मतत्वं यो जानाति सयोगिराट् ज्ञातव्यः॥३०॥३१॥ For Private And Personal Use Only
SR No.008528
Book TitleAtmapradip
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year1909
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy