SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan तृतीया प्रस्ताव भजितसेन शीलवतीचरितम् । ॥७४॥ क्रीडासुखमनुबभूव । तदनुतस्यानतदेवस्य यथार्थाभिधानं विभूषयता सुकण्ठनाम्ना तदीयकनीयसाभ्रात्रासह देवसम्बन्धेन मोदमाना सा हास्यविनोदानकार्षीत् । एवञ्चतस्य सुकण्ठस्यसुस्वरेणविमोहिता सा तस्मिन्समासक्ता प्रच्छन्नतया रतिविलासानप्यकरोत् । बतस्त्रीणांप्रवर्तनकीदृग्विधंगूढम् ? यस्यान्तंकापुमान्प्राप्नुयात् ! अहो ? महतामपि भ्रमंजनयन्तिप्रमदाः । यत उक्तम्वेधाद्वेधाभ्रमंचक्रे, कान्तासुकनकेषुच । कान्ताकनकसूत्रेण, वेष्टितं सकलंजगत् ॥१॥ किञ्चजलकल्लोलेभ्यस्तजन्याबुबुदा अधिकचञ्चलास्तेभ्योऽधिकचञ्चलावियुदभिधीयते, ततोऽपितद्वेगोऽतिचञ्चलोविद्यते,तस्मादप्यम्बुर्धरस्तस्मादप्यधिकजवोवायुर्निगद्यते। तस्मादप्युर्द्धपक्षस्यगरुडस्याधिकतरोवेगो लक्ष्यते । तथैव लक्ष्मीचाश्चन्यमपि लोकेऽतीवप्रशस्यते, खलानां संगतिश्चक्षणप्रभासमाना विद्यते, एतेभ्यः सर्वेभ्यः स्त्रीणांचापल्यमधिकतममेवप्रतिपादितं शास्त्रेषु, स्त्रीप्रवनन्तुविचित्रस्वभावमेवविलोक्यते, तस्मादेव योगनिष्ठजनास्तासांसज़दूरतः परिहरन्ति । ततः पातालसुन्दरी निजकान्तमनङ्गदेवं वश्चयित्वा गुप्तवृत्त्या निजदेवरसुकण्ठनिषेवतेस्म । अथैकस्मिन्दिने साप्यचिन्तयत्-सुकण्ठेनसाकंभोगंभुञ्जानाया ममाऽयमनङ्गदेवोऽन्तरायकारकोऽन्वहंजायते, तस्मात्तनिहन्मिचेदनेनसुकण्ठेन सा निःशङ्कतया विषयसुखमनुभवामि । एवंविघनिश्चयमनसिविधाय चैकसिन्वासरे रात्रिसमयेऽनङ्गदेवोदेहचिन्तायै समुत्थाय प्रवहणस्य प्रान्तभागेनिषष्मस्तसिन्क्षणेऽवसरं प्रतीक्षमाणा पातालसुन्दरी शीघ्रं समुत्थाय पाषाणखण्डमिवतं श्रेष्ठिनं जलधौ पातयित्वा मिथ्याभूतं रोदनं कुर्वन्ती प्रवहणस्थिताञ्जनानिति प्राहस्म-रेरे? धावत, धावत, मदीयो भत्तों वारिधौ | पतितः, हन्त रङ्कजनस्सहस्तगतं रत्नं यथा विनिर्याति तथैवममाऽपि सञ्जातमिति विविधानि तस्याः प्रलापवचनानि निशम्य तत्रस्थिताः सर्वेजनाः संमिल्य परितस्तं निरीक्षन्तेस्म, तथापि तच्छुद्धिंकेऽपिनालभन्त, तदानीं सा कुलटा कुटिलाशया पातालसुन्दरी ॥७४॥ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy